________________ वृद्धिः, आयत् // 81 // पूर्वस्यास्वे स्वरे इयुव य्वोः, इयाय ईयतुः इययिथ इयेथ एष्यति / / 82 // णिश्रिद्रुस्रुकमः कर्तरि ङः अद्यतन्याम्, अदुद्रुवत् दुद्रोथ, अशुश्रुवत् / स्मृ चिन्तायां, स्मरतु अस्मार्षीत् / // 83 // संयोगाहदर्तेः परोक्षायां गुणः, सस्मरतुः // 84 / / ऋतः तृन्नित्यानिटस्थव इण्न, सस्मर्थ / / 85 / / क्ययङाशीर्ये संयोगादर्तेर्गुणः, स्मर्यात् / / 86 / / हनृतः स्यस्येडादिः / स्मरिष्यति। सृ. गतौ / / 87 // वेगे सर्तेर्धाव अत्यादौ शिति, धावति // 88 // सर्त्यर्तेर्वाऽद्यतन्यामङ / / 89 // ऋवर्णदृशोऽङि गुणः / असरत् ससर्थ / // 90 // रिशक्याशीर्ये ऋतः / स्रियात् / ऋ प्रापणे च, ऋच्छति आर्च्छत् आरत् आर्षीत् आर्षुः // 91 / / ऋतोऽत् / पूर्वस्य, आर आरतुः // 92 / / ऋवृव्येऽदः थव इट् / आरिथ / तृ प्लवनतरणयोः, तरति अतारीत् / / 93 // स्कृच्छतोऽकि परोक्षायां / गुणः // 94 // तत्रपफलभजाम् / अत एर्न च द्विरवित्परोक्षासेट्थवोः, तेरतुः // 95 // ऋतां ङ्कितीर, तीर्यात् / / 96 // वृतो नवाऽनाशीःसिच् परस्मै च, वृत इटो वा दीर्घः / आशीः परस्मैसिचः परोक्षायाश्च न, तरीता तरिता / धे पाने, धयति / / 97 / /