________________ स्याकारो मवोः, भवामि भवावः भवामः // 16 // योगे परः / स च त्वं च भवथः, स च त्वं च अहं च भवामः // 17 // विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने सप्तमीपञ्चम्यौ // 18 // सप्तमी यात् याताम् युस् यास् यातम् यात याम् याव याम // 19 // ईत ईयाताम् ईरन् ईथास् ईयाथाम् ईध्वम् ईय ईवहि ईमहि / एतानि सप्तमी / शेषविभागः पूर्ववत् // 20 // य सप्तम्याः / अत इ., भवेत् भवेताम् / // 21 // याम्युसोरियमियुसौ / अतः, भवेयुः भवे: भवेतम् भवेत भवेयम् भवेव भवेम, साधुर्मोक्षोद्यतो भवेत् // 22 // आशिष्याशीःपञ्चम्यौ / विभक्ती स्याताम् // 23 // पञ्चमी तुव ताम् अन्तु हि तम् त आनिव आव आमव् // 24 / ताम् आताम् अन्ताम् थास् आथाम् ध्वम् ऐव आवहैव आमहै / एतानि पञ्चमीसंज्ञानि / भवतु // 25 // आशिषि तुह्योस्तातङ् वा / भवतात् भवताम् भवन्तु // 26 // अतः / प्रत्ययाकाराद्धेलुक, भव भवतात् भवतम् भवत भवानि भवाव भवाम, आयुष्मान् भवतु भवताद्वा भवान् // 27 // अनद्यतने शस्तनी / उभयतः सार्धरात्रमहोऽद्यतनस्तं वर्जयित्वा