________________ किन्तराम् उच्चस्तमाम् / / 13 / / प्रकृष्टे तमप्, द्वयोविभागे तरप् / क्त्वातुममन्तं चाव्ययं / प्राक्काले तुल्यकर्तृकाद्धातोः क्त्वा, भुक्त्वा व्रजति / / 14 / / अनञः क्त्वो यप् / समासे, नेत्रे निमील्य हसति // 15 / / रुणम् चाभीक्ष्ण्ये / प्राकाले चात् क्त्वा / / 16 / / भृशाभीक्ष्ण्याविच्छेदे द्विः / भोज भोज भुक्त्वा वा व्रजति // 17 / / क्रियायां क्रियार्थायां तुमणकच्भविष्यन्ती / भोक्तुं भोजको भोक्ष्य इति वा व्रजति // 18 // गतिः / अव्ययम् / / 19 / / धातोः पूजार्थस्वतिगतार्थावधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः / स च धातोः प्राक् / धात्वर्थ बाधते कश्चित्कश्चित्तमनुवर्तते / तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयोज्यते // 1 // प्रतीक्षते अधीते प्राणिति विजयते // 20 // ऊर्याद्यनुकरणच्चिडाचश्चा / अनुकरणा ऊर्याद्या: च्चिडाजन्तं उपसर्गाश्च धातोः प्राक् गतिसंज्ञाश्च, ऊरीकृत्य पटपटाकृत्य / कारि. कालंसदसत्अन्तरदःकणेमनःपुरोऽस्तंतिरसमध्येपदेनिवचनेमनस्युरसिउपाजेऽन्वाजेऽधिसाक्षादाहिस्तेपाणौप्राध्वंजोविकेत्याद्या अर्थविशेषै गतिसंज्ञकाः // 21 //