________________ [ 46 ] SHESH ___* श्रीरस्तु * प्राजन्मब्रह्मचर्यव्रतपरायणस्य विद्याविद्वत्संपोषणस्तस्य स्वयमपि महत्या वैदुष्या संपन्नस्य मूत्तिपूजकश्वेताम्बर जैनमुने राचार्यचूडामणेः श्रीमविजयनेमिसूरेः शिष्य परम्परामलं कुर्वाणेन विद्वत्प्रकाण्डेन प्राचार्यश्रीमद्विजयसुशीलसूरिणा पद्यमय्या संस्कृतवाचा संहब्धः "सुशीलनामाला" ऽभिधानः कोशग्रन्थो मया बहुषुस्थलेषु विलोकितः / अमुष्य भाषा-विन्यासः सरलो मनोहरः झटिति शब्दार्थावबोधनपटुश्च प्रत्यभात् / मन्येऽदसीय निर्माणसमये निर्माताऽस्मिन् एतदगुणगणाधानाय प्रयत्नपर इवामु निरमिभीत। अल्पीय सैव प्रयासेन संस्कृत शब्दान् तदर्थाश्च बुभुत्समानस्य साधारणमपि . संस्कृतविज्ञानं बिभ्रतो जनस्य महन्तमुपकारं ग्रन्थोऽयमाधारस्यतीति मदीयं चेतो दृढं विश्वसिति / वि० सं० 2033 माघ शुक्ला पश्चमी . [वसन्त पञ्चमी] सोमवार दिनाङ्क 24-1-77 दुर्गानाथझा प्रधानाचार्य श्रीस्वामिनारायण संस्कृत महाविद्यालय कालुपुर, अहमदाबाद (गुजरात) ॐ 9595959999999999955959