________________ तृतीयो मर्त्य विभाग: 253 ॐ पाशनाम 8 पाशो' बन्धनग्रन्थिरे श्च, मृगादिबन्धसाधनम् / * अवटनाम * प्रवटह्यवपात' श्च, मृगादि पातखातकम् // 1578 / / * कूटयन्त्रनाम * उन्माथः कूटयन्त्रं च पाशयन्त्रं पुन: खलु / नामान्येतानि कथ्यन्ते, पश्वादेग्रहणे सदा // 1576 / / ॐ नीचनामानि 8 इतरः' पामरो नीचः, प्राकृत श्च पृथग्जनः / विवर्णो बर्बर * श्चेति, नामानि विलसन्ति वै // 1580 / / __* चण्डोलनामानि * चण्डाल' श्चैव चाण्डाल:२, श्वपच: पुक्कस: प्लवः / पुष्कसो' बुक्कस श्चापि, निषाद' श्च जनङ्गमः // 1581 // मातङ्गो ऽन्तावसायी'' वै, दिवाकीति:१२ पुनः किल / अन्तेवासी'3 ति नामानि, मन्यन्ते पण्डितै जनैः // 1582 // ___ डोम्ब' च श्वपचो' नाम, डोम्बजाते हि कथ्यते / बुक्कसो' मृतपः२ प्रोक्तः श्मशानकार्यकारकः // 1583 //