________________ तृतीयो मर्त्यविभागः - 123 * परिवेत्तनाम * परिवेत्ता' च स ख्यातः, ज्येष्ठं त्यक्त्वा विवाहित. // 834 // स्वयं न परिणीतो यः, कनिष्ठ श्च विवाहितः / * परिवित्तिनाम * स एव परिवित्ति' स्तु, कथ्यते व्यवहारतः // 835 // * परिवेदिनीनाम * परिवेत्तु स्तु पत्नी वै, मन्यते परिवेदिनी' / * कामुकीनाम * कामुकी' च वृषस्यन्ती', मैथुनेच्छावती भवेत् / / 836 // .. - * कामुकानाम * धनादीच्छावती नारी, कथ्यते * कामुका' हि सा। * अध्यूढानाम * कृतसापत्निका' ऽध्यूढारे, मन्यते प्रथमाऽङ्गना / / 837 // अधिवित्ता ऽधिविन्ना' च, सापि पत्नी तथैव हि / . * सतीनामानि * एकपत्नी सती साध्वी, सुचरित्रा पतिव्रता' / / 838 / /