________________ तृतीयो मर्त्य विभागः 76 * पायसनामानि * परमान्न' श्च क्षरेयी, पयः पक्वं हि पायसम् / * दधिनामानि * क्षीरज' गोरस श्चैव, मङ्गल्यं श्रीघनं दधि' // 607 // अघनं दधि द्रप्सं स्यात्, द्रप्स्यं पत्रल मित्यपि / ___ * घृतनामानि * घृत' माज्यं हविः सपिः४, . तथाऽऽधारो' हविष्यकम् // 608 // हो गोदोहस्य विकारे तु, हैयङ्गवीन' मुच्यते / * नवनीतनामानि * शरजं' दधिसार' ञ्च, तक्रसारं3 नवोद्धृतम् // 606 // नवनीत' च पञ्चैव, घृतोत्पत्ति कराणि वै। .. * तक्रनामानि * अरिष्टं' गोरसो घोलं, कालशेयं रसायनम् // 610 // दण्डाहतं' षडेतानि, पठ्यन्ते तक्रनामनि / उदश्वित्' त्वर्धपानीयं, तक भोजन पाचनम् // 611 //