________________ प्राकृतशब्दरूपावलिः देवत्तो-देवाओ-देवाउ-देवाहि-देवाहिन्तो-देवा इति पञ्चम्येकवचने रूपाणि सिद्ध्यन्ति / दो-दु-इत्यत्र दकारकरणं भाषान्तरार्थम् / देवशब्दस्य ङसेस् तोपरे जस्शस्ङसित्यादिना दीघे, देवात्तो इति सिद्धे / ह्रस्वः संयोगे / / 8 / 1 / 84 / / इति सूत्रेण दीर्घस्य हूस्वे कृते देवत्तो इति भवति / भ्यसस् तोदोदुहिहिन्तोसुन्तो // 8 / 3 / 9 // पञ्चम्या बहुवचने इत्येते आदेशा भवन्ति / __भ्यसि वा / / 8 / 3 / 13 // इत्यनेन वा दीर्घ कृते देवत्तो 'देवाओ-देवाउ-देवाहि-देवाहिन्तो-देवासुन्तो इति रूपषट्कम् / - भिस्भ्यस्सुपि / / 8 / 3 / 15 / / इत्यनेनाऽकारस्य एकारो भवति / एवं च सति / देवेहि-देवेहिन्तो-देवेसुन्तो इति रूपत्रयम् / सर्व मिलित्वा पञ्चमी बहुवचने नव रूपाणि भवन्ति / - इस स्सः / / 8 / 3 / 10 // इत्यनेन देवस्स इति षष्ठ्येकवचनं सिद्धम् / _डे म्मि . / / 8 / 3 / 11 // अतः परस्य डेर्डिदेकार: संयुक्तो मिश्च भवति / तेन देवे देवम्मि-इति सप्तम्येकवचनं देवे इत्यत्र तु एकारे परे। - लुक् / / 8 / 1 / 10 / / इत्यनेन पूर्वस्वरस्य लुक् / / ॥डो दीर्घो वा / / 8 / 3 / 38 // इति सूत्रेण सम्बोधने सेडॉर्डो वा भवति तेन / हे देवो-हे देव इति रूपद्धयम् / इदुतोश्च वा दीर्घः / तेन हे हरी-हे हरि-इतिरूपयुग्मम् /