________________ श्रीसूर्यसहस्रनामसङ्घात्रयम् प्रक्षीणबन्धकारिः, क्रोधकृत् क्षेमशासनः // 65 / / प्रणव: प्रणयः प्राणः, प्राणदः प्राणतेश्वरः / प्रमाणप्रणिधिदक्षो दक्षिणो ध्वर्युरध्वरः // 66 // आनन्दो नन्दनो नन्दो, वन्द्योऽनिन्द्योऽभिनन्दनः / कामहा कामदः काम्यः, कामधेनुररिञ्जयः / / 67 / / असंस्कृतसुसंस्कारो प्राकृतो वै कृतान्तकृत् / अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः // 68 // अजितो जितकामारिरमितोऽमितशासनः / जितक्रोधो जितामित्रो, जितक्लेशो जितान्तकः / / 69 / / जिनेन्द्रः परमानन्दो, मुनीन्द्रो दुन्दुभिस्वनः / महेन्द्रवन्धो योगीन्द्रो, यतीन्द्रो नाभिनन्दनः / / 7 / / नाभेयो नाभिजो जातः, सुव्रतो मनुरुत्तमः / अभेद्योऽनत्ययो नाश्वानधिकोऽधिगुरुः सुधीः / / 71 / / सुमेधा विक्रमी स्वामी, दुराधर्षों निरुत्सकः / विशिष्टोऽशिष्टभुक् शिष्टः, प्रत्यय: कमनोऽनघः / / 72 / / क्षेमी क्षेमकरोऽक्षय्य:, क्षेमधर्मपति: क्षमी। अग्राह्यो ज्ञाननिग्राह्यो ज्ञानगम्यो निरुत्तारः // 73 // सुकृती धातुरिज्याईः, सुनयश्चतुराननः / श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः / / 74 / / . सत्यात्मा सत्यविज्ञान: सत्यवाक् सत्यशासनः / सत्याशीः सत्यसन्धानः, सत्यः सत्यपरायणः / / 75|| स्थेयान् स्थवीयान् नेदीयान्, दवीयान् दूरदर्शनः / अणोरणीयाननणुर्गुरुराद्यो गरीयसाम् / / 76 // 168