________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ग्रहाधिपो ग्रहपुषो ग्रहाधिभूर्ग्रहप्रभुः // 2 // ग्रहराजो ग्रहाधीशो, ग्रहेन्द्रो दिनबान्धवः / रोचि:पतिः शुचिस्वामी, शोचिरीशोऽर्चिरीश्वरः / / 3 / / उसस्वामी रुचिस्वामी, रुचिभर्ता रुचीश्वरः। रुचिनेता रुचिप्रेयान् रुचिराजो रुचिप्रभुः // 4 // रुचिकान्तो रुचामीशो, रुचांनाथो रुचांविभुः। रुचांभर्ता रुचांनेता, रुचामिन्द्रो रुचामिनः / / 5 / / रुचांस्वामी रुचांप्रेयान्, रुचांकान्तो रुचांप्रभुः / रुचीशिता रुनाराजो, रुप्रेयान् रुचिवल्लभः / 6 / / रुचीशो रुचिरमणो, रुग्भर्ता रुचिनायकः / उप्रेशः शौचिषांनाथः, शुचीशो रोचिषांपतिः // 7 // गोस्वामी गो:पति: कान्तिप्रणयी ज्योतिषांपतिः। ज्योतिरीशो गवामीशो, गवांस्वामी गवांपतिः // 8 // अंशुस्वामी करस्वामी, कराधीशः करप्रभुः। अर्चिनायोऽर्चिषांनाथः, शुचिनाथः शुचिप्रियः / / 9 / / धामेशो महंसामीशो, दीप्तीशो दीप्तिवल्लभः / घृणिप्रेयान् घृणिस्वामी, घृष्णिनाथो घृणिप्रियः // 10 // घृणीशो घृणिरमणस्ििवषीश: प्रग्रहप्रभुः। द्युतीश: प्रग्रहस्वामी, प्रभेश: प्रग्रहाधिपः // 11 // विभेन्द्रः प्रग्रहाधीशो, गवीशः प्रग्रहेश्वरः / गभस्तीशस्त्विषामीशो मरीचीशस्त्विषांपतिः / / 12 / / कलिन्दपुत्री सविता पवमानपथध्वजः / अब्जिनीजीविताधीशः, सरसीरुहबान्धवः / / 13 / / 155