________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् नित्यज्ञानेच्छाप्रयत्नरूपाणि यस्य स तथा / 'अम्बकः पुंसि चिहे स्यात् // ' इति धरणिः // 1044 // यत्कान्त्या विरलीकृतं नहि तम: कुत्रापि संलक्ष्यते, यद्धयानामृतचारुसिक्तमनसां नैवापदः कुत्रचित् / जायन्ते यदुपासनात् करगताः सर्वाः सतां सम्पदः,.... स श्रीमान् दिवसप्रभुः प्रतिदिनं पुष्णातु वो वाञ्छितम् // 1 // प्रत्यूषे करिणां कपोलफलके सिन्दूरपूरोपमः, .. . पृथ्ख्याः प्रोन्नतपर्वतस्तनतटे सत्कुडमालेपवत् / कुजेषु प्रतिशाखिपल्लवगणभ्रान्तिं समुत्पादयन्, .. ध्वान्तारण्यधनञ्जयस्य तरणे सां च यो भासते // 2 // . आयामं वियतोऽङ्गुलीभिरतुलं को वा मिमीते जनो ?, गङ्गायाः सिकताकणान् गणयितुं को वा समर्थः पुमान् ? / कः क्षीरोदधिजीवनस्य पृषतां संख्यां समासादयेत् ?, तद्वद् गोत्रपरम्परां भगवतो वक्तुं न कोऽपि क्षमः // 3 // शोभापूरितसूरिहीरविजयस्यासीद् गणे पाठक-, प्रष्ठः श्रीसकलादिचन्द्रचरम: श्रीसूरचन्द्रस्ततः। तच्छिष्योऽस्ति समस्तवाचकपति: श्रीभानुचन्द्राभिधस्-, तेनेदं विवृतं मुदा दिनमणेर्नाम्नां सहस्रं स्फुटम् // 4 // // इति प्रशस्तिः // // इति पादसाहश्रीअकबरसूर्यसहस्रनामाध्यापकश्रीत्रुञ्जयतीर्थकरमोचनाद्य नेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायांछष्याष्टोत्तर शतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त खुस्फहमा'ऽपराभिधान महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां नवाबशेखश्रीअबुलफजलकारितायां सूर्यसहस्रनामटीकायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीका समाप्ता / / 147