________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पृथ्वी, ब:-वरुणः; ई:-लक्ष्मीः , एतान् राति-गृह्णातीति वा / कुवंचन्द्रविकाशि कमलम्, ईर्ते-कम्पयतीति सः, तदुदयेनैव तत्सकोचात् / / 746 / / “कपिल:" 747 इति / कं-जलं पिबतीति / कपय:-रश्मयः, तान् लातीति सः // 747 // “कपर्दी" 748 इति / कपर्दी-ईश्वरः, तद्रूपत्वात् / / 748 / / "कविः" 749 इति / कवते कौति वा कविः, पण्डित इत्यर्थः / / 749 / / "गोपति:" 750 इति / गो:-स्वर्गस्य पति: गोपतिः, तद्गममनस्य तदधीनत्वात् / / 750 // "कवच:" 751 इति / भक्तानामवननिदानभूतत्वेन कवच इव कवचः / / 751 // "कवची" 752 इति / कवचं-तनुत्राणं तेजोलक्षणम्, तदस्यास्तीति कवची, निरन्तरमच्छेद्याभेद्य इत्यर्थः / / 752 / / "गोविन्दः" 753 इति / गां विन्दतीति गोविन्दः, तदुक्तमन्यत्र 'नष्टां वै धरणीं पूर्वमविंदं वै गुहागताम् / . गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः // ' इति / . गोवेषात् तु तथा वाणी, तां च विन्दयते भवान् / - गोविन्दस्तु ततो देवो मुनिभिः कथ्यते भवान् / / ' इति // 753 / / "गोमान्" 754 इति / गाव:-लोचनानि ज्ञानमयानि विद्यन्ते यस्य स तथा / गोमान्-स्वर्गवानिति वा / / 754 / / "ज्ञानवान्' 755 इति / ज्ञानं विद्यते यस्य स तथा, जगद्विलक्षणनित्यसविषयकज्ञानवानित्यर्थः / / 755 / / "ज्ञानगम्यः" 756 इति / ज्ञानेनैव गम्यते-ज्ञायते इति सः / 'ज्ञानेनैव तु कैवल्यम् // ' इति पुराणोक्तेः / / 756 / / "ज्ञानशोभन:'" 757 इति / ज्ञानं शोभनं यस्मिन् यस्माद् वा स तथा / / 757 / / 122