________________ // 264 // // 265 // // 266 // // 267 // // 268 // // 269 // प्रसादिता च तेनैव, भार्या ते भवितव्यता / प्रह्वीकृतोऽङ्गभूतस्ते, स्वभावः स्वमहत्तमः / प्रोत्साहितः सहचरस्तव पुण्योदयस्तथा / आश्वासिताश्चारित्राद्या, मोहाद्याश्चावधीरिताः यतः प्रभृति जातौ ते, महत्तमसदागमौ / बान्धवौ तत आरभ्यानुकूलस्त्वय्ययं नृपः ततस्तेन सुखश्रेणी, दत्ता. ते विबुधालये / प्रोत्साहितोऽधुनाऽप्येष, सुहृत् पुण्योदयस्तव तेन संपादिता. बाह्या, भार्या मदनसुन्दरी / . तेनैव दर्शितः स्वप्नः, कनकोदरभूभुजः वरो मदनमञ्जर्या, दृष्टोऽस्माभिस्तवात्र का / चिन्तेति तत्र यत् प्रोचे, मानुषाणां चतुष्टयम् तत् कर्मपरिणामादिरूपं तेन प्रकाशितम् / गोपितं स्वस्य माहात्म्यं, गाम्भीर्यात् पुनरात्मना विद्याधरेषु वैमुख्यं, तस्या यज्जनितं स्वयम् / . तन्मुखेनैव तदपि, प्राकाशयदयं कृती ततोऽसौ भाषितः कर्मपरिणामेन भूभुजा / . स्वात्मा यद्गोपितश्चारु, पुण्योदय ! न तत् कृतम् त्वां विना सुन्दरं कार्यं, न वयं कर्तुमीश्महे / प्रकाशनीयस्तेनात्मा, नान्यथा नः सुखं भवेत् तदाज्ञपारतन्त्र्येण, स्वात्मान्तर्भावतस्ततः / कुलन्धराय पञ्चासौ, मानुषाणि न्यरूपयत् इदं तेषां चतुर्णां च, पञ्चानां च प्रदर्शने / .. कारणं तत्र सन्देहं, मा कार्षीर्गुणधारण ! 208 // 270 // // 271 / / // 272 // // 273 // // 274 // . // 275 // .