________________ यतिवेषोऽपि जातोऽहं, मिथ्यात्वी गुणदूषकः / / ततोऽनन्तं पुनः कालं, भ्रामितो दुष्टभार्यया // 864 // न सा विपन्न सा पीडा, न सा तीव्रविडम्बना / ... अपार्द्धपुद्गलावर्त, या न सोढा मया तदा // 865 // स्वकीयवृत्तान्तमिति ब्रुवाणे, संसारिजीवे श्रवणामृताभम् / / भावार्थलेशाप्तिमुदाऽगृहीत-संकेतयां चित्रमधारि चित्ते // 866 // प्रज्ञाविशालाऽपि निशम्य वाचं, तां तादृशीं चिन्तयति स्म चित्ते / अहो महामोहपरिग्रहौ द्वौ; दुरन्तदोषावनिवार्यवीरों // 867 // क्रोधादिदोषादिगतैरनथैः, सम्यक्त्वहीनान हि विस्मय: स्यात् / तत्संयुताभ्यां भवपातमाभ्यां, श्रुत्वा तु चित्रीयत एव चेतः // 868 // ते के नु दोषा: भुवि ये भवन्ति, सम्यक्त्वसूर्यस्य पुरस्तमांसि / इमौ त्वहो दुष्टतरौ पयोदराहूपमौ तद्रुचिनाशदक्षौ // 869 / / इमौ समस्ताः समुदायरूपौ, क्रोधादिदोषा अपि वाऽनुयान्ति / तदेतयोरीदृशकष्टजातसंपादकत्वं न हि चित्रकारि // 870 / / क्रोधादयोऽपि प्रभवन्ति घाते, बाढं गुणानामनिवार्यमाणाः। तथाऽपि चासावनयोविशेषो-ल्लेखार्थमेवेत्थमुदाजहार // 871 // इत्थं महामोहपरिग्रहोत्थं, फलं निशम्यापि न पापलोकः। प्रबुद्ध्यते सद्गुरुवाक्यलक्षैः, किं कुर्महे तत्र बहूपचारैः // 872 / / एषाऽप्यशेषाऽपनयप्रसूतिः, श्रुतिः श्रुता कोविदसूरिवाक्यैः / तथाऽपि मोहान्धतया जनोऽस्याः, कथं वृथा धावति लालनाय।। 873 / / उन्नीतभावामिति धीविशालां, संप्रेक्ष्य भव्यो वदति स्म मातः !! ध्यातं त्वया किं निजगाद साऽपि, सर्वं प्रवक्ष्यामि निराकुला ते।। 874 // दत्तावधानः शृणु तावदस्य, वाक्यं कृथा मा तरलत्वमन्तः / अनेन सर्वं स्वचरित्रमुक्तप्रायं तदस्य द्रुतमस्तु पूतिः / // 875 // 184