________________ // 372 // // 373 // // 374 // // 375 // // 376 // // 377 // कुर्महे चण्डिकादीनां, तृप्ति छागादिशोणितैः / गवाश्वमनुजच्छागैस्तथा यागं चतुर्विधम् निहत्य दुःखितान् दुःखं, मोचयामः कृपालवः / पापाऽवारितं सत्रं, मांसैर्दद्यो यथेच्छया तदाकर्ण्य प्रभाषन्ते मुनयो भवतामसौ / नैव युक्तौ भवासङ्गः, सुखं नास्त्यत्र तात्त्विकम् भोगा भोगा इवाहेयाः, भीषणा क्लेशवर्द्धनाः / मायकरण्डिका नार्यो, विलासाश्च विडम्बनाः मोक्षस्त्वात्मव्यवस्थानं, व्याधिक्षयसमं सुखम् / तस्मात् तमुत्सृज्य भवव्यासङ्गो वः स्ववैरिता धर्मानुष्ठानबुद्ध्या च, यदिदं जन्तुघातनम् / . . तदप्यनन्तसंसारवर्द्धनं पापकारणम् . मा कुरुध्वमतो धर्ममीदृशं धूर्तवञ्चिताः / . कुरुवं सुमुनिप्रोक्तं, तमहिंसादिलक्षणम् . मूढा वितन्वते द्वेषं, श्रुत्वेदं मुनिभाषितम् / वदन्ति यात यूयं भोः, शिक्षणीया वयं तु न नियन्त्रयथ नो भोगैनिषिद्धैनिन्दथाऽधमाः ! / अस्माकं धर्मरत्नानि, तद् यूयं नो महारयः / यदि.वो रोचते नान्तः, सद्धर्मोऽस्माकमीदृशः / अतोऽलं भवदीयेन, धर्मेण पुरुषाधमाः ! / इदमाकर्ण्य मुनयो, ब्रूयुर्यावत् कृपापराः / भूयो धर्मगति तावत्, कुपिताः प्रहरन्ति ते मुनयस्तानुपेक्षन्ते, निश्चित्यासाध्यतां ततः / न दोहने भवेद् भावो, गोर्वन्ध्यात्वे हि निश्चिते // 378 // // 379 // // 380 // // 381 // // 382 // // 383 // 143