________________ // 503 // // 504 // // 505 // // 506 // // 507 // // 508 // सिंहासनानि राजन्ते, चत्वारि चतुराकृतेः / प्रभोः कषायसिंहानां, चतुर्णा दर्पहारिणः / मूर्ध्नि भामण्डलं तस्य, ध्वस्तध्वान्तं विराजते / उदयाद्रौ प्रचण्डस्य, मार्तण्डस्येव मण्डलम् पुरस्तस्य ध्वनन् व्योम्नि, दुन्दुभिर्देवताडितः / विधत्ते विश्वधर्मार्थिजनाायकचेष्टितम् तस्य च्छत्रत्रयं भाति, तापत्रयनिवारणात् / कीर्तित्रयमिवोद्भूतं विश्वत्रयहितैषिणः प्रातिहारहार्यश्रीरसावित्येवमादिभिः / विभ्राजते महाभागः, श्रेयःसागरचन्द्रमाः निःस्वेदो निर्मलो देहस्तस्य हृद्यो निरामयः / रक्तं मांसं च गोक्षीरहारतारकसन्निभम् न दृश्याऽऽहारनिर्हारचेष्टा चर्मदृशां नृणाम् / अम्भोजसुरभिः श्वासः, सहजेयं गुणावली .. कोटीकोट्योऽपि मान्त्यस्य, क्षेत्रे योजनमात्रके। भाषा च भाति सर्वेषामेकाऽपि स्वस्वभाषया भाति भामण्डलं मूर्ध्नि, मारिवैररुगीतयः / पूर्वोत्पन्नाः प्रशाम्यन्ति, नान्याः स्युस्तत्प्रभावतः योजनानां शते न स्याद्, दुर्भिक्षं तद्विहारतः / स्तेनादिभीरवृष्टिश्चातिवृष्टिश्च कदाचन मोहक्षयोद्भवा एते, गुणास्तस्येन्दुनिर्मलाः / चारुरेष ध्वजच्छत्रसच्चकासनचामरैः दधते काञ्चनाब्जानि, पदन्यासेऽस्य निर्जराः / वप्रत्रयेऽशोकतले, शोभतेऽसौ चतुर्मुखः // 509 // // 510 // // 511 // // 512 // // 513 // // 514 // '100.