________________ सर्वेऽपि गन्तुमिच्छन्ति, तामधःपुरवासिनः / मुक्त्वा लोकायतं स्वैः स्वैर्मियो मार्गविरोधिभिः / // 1164 // न मुक्तेः प्रापका युक्ताः, पन्थानस्ते च कल्पिताः / विवेकशिखरस्थैस्तु, दृष्टः पन्थास्तदाप्तिकृत् // 1165 // त्यक्तमार्गाः कुमार्ग च, संश्रितास्तदध:श्रिताः / मिथ्यादर्शनलुप्ताशा, गिरिस्थास्तु न तादृशाः // 1166 // प्रकर्षः प्राह येऽमीभिर्मुक्तिमार्गाः प्रकल्पिताः / प्रत्येकं तानहं श्रोतुमिच्छाम्युत्पन्नकौतुक्र: // 1167 // विमर्शः प्राह यद्येवं, समाधाय ततो मनः / वक्ष्यमाणान्मया वत्स ! तान् मार्गानवधारय // 1168 // तत्त्वज्ञानाद् भवेन्मुक्तिरिति सर्वैर्विनिश्चितम् / तानि नैयायिकानां च, प्रमाणादीनि षोडश // 1169 // प्रमायाः करणं तत्रं, प्रमाणं तच्चतुर्विधम् / प्रत्यक्षमनुमानं चोपमानं शा(श)ब्दमेव च // 1170 // ज्ञानं प्रत्यक्षमक्षार्थयोगजं व्यभिचारि न। . तत्पूर्वं त्रिविधं प्राहुरनुमानं विशारदाः / // 1171 // पूर्ववच्छेषवच्चैव, दृष्टं सामान्यतश्च तत् / हेतोः कार्यस्य कार्याच्च, हेतोरन्यस्य चान्यतः यथा मेघोन्नतेर्वृष्टिर्भविष्यत्यनुमीयते / पूरभेदाच्च जाता साऽन्यदिग्प्राप्तेर्गती खौ // 1173 // उपमानं स्मृतं संज्ञासंज्ञिसंबन्धसंगतिः / आप्तोपदेशः शब्दश्च, मानमेतच्चतुर्विधम् // 1174 // आत्मदेहेन्द्रियस्वान्तधीदोषार्थप्रवृत्तयः / .. प्रेत्यभावः फलं दुःखं, प्रमेयं मुक्तिरेव च / // 1175 // स्वा 228