________________ // 2 // . // 3 // // 4 // नन्दनमुन्याराधिता. ॥आराधना // स निष्कलङ्कं श्रामण्यं चरित्वा मूलतोऽपि हि / आयुःपर्यन्तसमये व्यधादाराधनामिति ज्ञानाचारोऽष्टधा प्रोक्तो यः काल-विनयादिकः। .. तत्र मे कोऽप्यतीचारो योऽभूनिन्दामि तं त्रिधा यः प्रोक्तो दर्शनाचारोऽष्टधा निःशङ्कितादिकः / / तत्र मे योऽतिचारोऽभूत् त्रिधाऽपि व्युत्सृजामि तम् या कृता प्राणिनां हिंसा सूक्ष्मा वा बादराऽपि वा। मोहाद् वा लोभतो वाऽपि व्युत्सृजामि त्रिधाऽपि ताम् हास्य-भी-क्रोध-लोभाधैर्यन्मृषा भाषितं मया / तत् सर्वमपि निन्दामि प्रायश्चित्तं चरामि 'च अल्पं भूरि च यत क्वाऽपि परद्रव्यमदत्तकम् / आत्तं रागादथ द्वेषात् तत् सर्वं व्युत्सृजाम्यहम् .. तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा / यत् कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् बहुधो यो धन-धान्य-पश्वादीनां परिग्रहः / लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधाऽपि तम् पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे / अन्येष्वपि ममत्वं यत् तत् सर्वं व्युत्सृजाम्यहम् इन्द्रियैरभिभूतेन य आहारश्चतुर्विधः / मया रात्रावुपाभोजि निन्दामि तमपि विधा कोधो मानो माया लोभो रागो द्वेषः कलिस्तथा / पैशुन्यं परनिर्वादोऽभ्याख्यानमपरं च यत् // 8 // // 11 // ક