________________ // 480 // // 481 // // 482 // // 483 // // 484 // // 485 // गतेऽहं विमले प्राप्तस्तेतलिप्रेरितो वनम् / भ्रमताऽपि न दृष्टा च, नानास्थानेषु तत्र सा अत्रान्तरे लताकुळे, श्रुतः सन्नूपुरध्वनिः / गहनं तेतलेः पार्थादपसृत्य तदीक्षितम् प्रतीतमेतद्युष्माकं, शृण्वन्तु वनदेवताः / अत्र तेतलिना तस्यानयनं प्रत्यपद्यत प्रतार्य तेतलिर्यातो, न चासौ दृश्यते जनः / अन्वेषयामि तमिति, गता धूर्ता कपिञ्जला तदलं जीवितव्येन, प्रसादाद् वः स एव तु / भर्ता जन्मान्तरे भूयादित्युक्त्वा तत्र दुःखिता तमालतरुशाखायां, बद्ध्वा पाशे शिरोधराम् / मोक्तुं शरीरमुद्युक्ता, दृष्टा कनकमञ्जरी तत्र मा साहसमिति, ब्रुवाणोऽहं जवाद् गतः / धृता सा पाशकं छित्त्वा, शीतैराश्वासिता जलैः उक्तं च देवि ! किमिदमारब्धमसमञ्जसम् / विषादो युज्यते नेयान्, स्वाधिने मयि किङ्करे मदर्शनेन जाताऽसावनेकरसनिर्भरा / . विलिखन्ती भुवं तस्थौ, विलसद्दशनद्युतिः क्रीतः सद्भावमूल्येन, दासोऽहं तव वल्लभे ! / कठोरो नास्म्यहं वेधाः, कठोरस्तु विलम्बकृत् इदं मम वचः श्रुत्वा, सुधासिक्तेव साऽभवत् / इतश्च तेतलि प्राप्ता, पर्यटन्ती कपिञ्जला साऽब्रवीत् व कुमारोऽस्ति, तेनोक्तं गहने पुरः / . आवयोमिथुनं ताभ्यामागताभ्यामथेक्षितम् // 486 // // 487 // // 488 // // 489 // // 490 // // 491 // . 107