________________ // 456 // // 457 // // 458 // // 459 // // 460 // // 461 // गतोऽस्तं तरणिस्तावदुदितः शर्वरीपतिः / विस्तृता पञ्चबाणास्त्ररजोराजीव चन्द्रिका शायिता सा ततो हर्म्य, चन्द्रचन्दनशीतले / कृतायां मृदुशय्यायां, प्रवालनलिनीदलैः न च तस्या गतस्तापः, प्रत्युताभ्युदयाद् विधोः / खादिराङ्गारसंसर्गादिव प्रावर्धताधिकम् प्रवृद्धतापां तां दृष्ट्वा, जगौ मलयमञ्जरी। दीर्घं नि:श्वस्य पुत्र्या मे, भविता किमतः परम् राजमार्गे श्रुतः शब्दस्तदाऽकस्मात् समुत्थितः / वेला विलम्बते काचित्, सिद्धमेव प्रयोजनम् बुद्धः स्वामिनि ! शब्दार्थो, मयोक्तं हृष्टया तदा / स्पन्दते वामनेत्रं मे, सिद्धमेव प्रयोजनम् / अत्रान्तरे च भगिनी, ज्येष्ठाऽस्या मणिमञ्जरी / निषण्णा हर्नामारुह्य, हृष्टा, साऽऽगत्य नोऽन्तिके मयोक्ता सा च वत्से ! त्वं, कठोरा दृषदोऽप्यसि / दृश्यते सविषादासु, यदस्मासु प्रमोदभाक् सा प्राह किं करोम्येष, हर्षहेतुर्ममाचलः / भवद्विषादहस्तेन, नैव गोपयितुं क्षमः क एष इत्यभिहिते, सा जगावधुना ह्यहम् / ताताभ्यणे गता तेन, निजोत्सङ्गे निवेशिता तद्गा च पितुरभ्यर्णे, स्थितः कनकशेखरः / सुधामधुरया वाचा, पिता तं प्रत्यभाषत द्रुमः समरसेनश्च, निहतौ येन लीलया / अतिदुष्प्रतिकारोऽसौ, महात्मा नन्दिवर्धनः // 462 // // 463 // // 464 // // 465 // // 466 // // 467 // .105