________________ महोपाध्यायश्रीमद्यशोविजयविरचिता ॥वैराग्यकल्पलता-१ // ॥प्रथमः स्तबकः // * ऐन्द्रीं श्रियं नाभिसुतः स दद्या-दद्यापि धर्मस्थितिकल्पवल्लिः / येनोप्तपूर्वा त्रिजगज्जनानां, नानान्तरानन्दफलानि सूते // 1 // सदोदयो हृद्गहनस्थिताना-मपि व्ययं यस्तमसां विधत्ते / जयत्यपूर्वो मृगलाञ्छनोऽसौ, श्रीशान्तिनाथः शुचिपक्षयुग्मः // 2 // चाणूरजिद्दर्पमहासमुद्र-व्यालोडनस्वर्गिरिबाहुवीर्यः / राजीमतीनेत्रचकोरचन्द्रः, श्रीनेमिनाथः शिवतातिरस्तु यः सप्तविश्वाधिपतित्वसूचा-नूचानभोगीन्द्रफणातपत्रैः / विभाति देवेन्द्रकृतांहिसेवः, श्रीपार्श्वदेवः स शिवाय भूयात् // 4 // आस्वाद्य यद्वाक्यरसं बुधानां, पीयूषपानेऽपि भवेद् घृणैव / नमामि तं विश्वजनीनवाचं, वाचंयमेन्द्रं जिनवर्द्धमानम् // 5 // एतांस्तथाऽन्यान् प्रणिपत्य मूर्जा, जिनाननुध्याय गुणान् गुरूणाम् / सारस्वतं च प्रणिधाय धाम, करोमि वैराग्यकथां विचित्राम्॥ 6 // सूक्तानि वैराग्यसुधारसेन, सिक्तानि तुष्टिं ददते यथाऽन्तः / तथा बुधानां न हि. वेणुवीणा-मृदङ्गसंगीतकलाविलासाः // 7 // व्योम्नो यथेन्दुः सदनस्य दीपो, हारस्य सारस्तरलो यथा वा / वनस्य भूषा च यथा मधुश्री-ऑनस्य वैराग्यमतिस्तथैव // 8 // साधारणीनिविधोरशेषाः, शेषाः कलाः के कलयन्ति नोच्चैः / धत्ते पदं या भवमूर्ध्नि तां यः, प्रेक्षेत वैरागयकलां स धन्यः // 9 // शमाग्नितप्ताष्टरसावशिष्टप्रकृष्टवैराग्यरसव्रतत्वम्।। विनाऽस्त्युपायो भुवि कोऽपि चारु-र्न ज्ञानगर्वज्वरशान्तिहेतुः // 10 // साम्राज्यमक्लेशवशीकृतोर्वी-जनप्रणीतस्तुतिलब्धकीर्ति / ज्ञानादिरत्नैः परिपूर्णकोशं, वैराग्यरूपं हितकृन्न कस्य // 11 // ..