________________ ॥त्रिंशत्तमोऽध्यायः // 30 // श्री गौतम उवाच ऐन्द्रं रूपं यथा मुख्यं, सर्वदेवेषु गीयते / ॐकारस्तद्वद्वर्णेषु, तत्राकारः पुरस्सरः अव्ययत्वादकारस्या-ऽनेकेऽर्थाः सद्भिराहिताः / / तेनाकारेण किं ध्येयो-हन् वा कृष्णो विधिर्भवः // 2 // // 3 // - // 4 // श्री भगवानुवाच कारागृहं च संसारो, जीवयोनिः भवभ्रमः / तदभावादकारोऽर्हन्, कैवल्यादक्षरादिमः नराः प्राणभृतां मुख्याः, प्रागुक्तास्तेषु शुद्धवाक् / वाक्शुद्धिर्मातृकाभ्यासा-दकारस्तन्मुखें ततः भवेत् सिद्धिः नृलोकस्य, लोकविष्णो:सनाभिगः / नाभिजत्वादकारोऽर्हन्, ततः संवृतयत्नवान् तथाऽष्टादशधाकारो-विवाराच्छाब्दिके नये। षोढा संवृत्तयत्नेन, चतुर्विंशतिधा ततः उच्चारणेऽपि शब्देन, यदाकारो निराकृतिः / लेखने साकृतिः द्वेधा, मुक्तो वा मोचकोप्ययम् आकारस्तत एवास्य, स्वरूपाद्दीर्घतां दधौ / अर्हत्पार्श्वस्थितेर्वेत्ता, तेनाकारं निषेवते ऐकोप्यकारस्तादात्म्या, च्चतुर्विंशतिधा भवेत् / आकारादिभिदा तद्व-दर्हनेकोऽपि वस्तुतः वर्णव्यवस्था सफला-प्याद्यान्नाभिभुवोऽर्हतः / तथाकारादसौ स्पष्टा, साक्षाद्विश्वम्भरोप्ययम् // 7 // // 8 // // 9 // // 10 // 012