________________ . // 1 // // 2 // // 3 // // 4 // ॥सप्तविशंतितमोऽध्यायः // 27 // श्री गौतम उवाच ऐश्वरं नामजपनं, निश्चित्यैकाग्रमानसः / शिवस्वरूपमादित्सुः, किं कुर्यात्कर्म धार्मिकम् . श्री भगवानुवाच तस्यैव दर्शनं कुर्या-दर्शनावरणच्छिदे / गुरोर्देवस्य चावश्यं, यस्य श्रद्धां धरेनरः, यः स्वयं शिवमापनः, प्रेक्षणेऽपि शिवङ्करः। यः पूज्यते सदा तेजो, भासुरैः श्रीसुरासुरैः जिनः सनातनो जिष्णु-रच्युतः पुरुषोत्तमः / स्वभूविश्वम्भर इति-नाम्ना यो न जनार्दनः स्वयम्भू परमेष्ठी च, नाभेयः सात्त्विकोत्तमः / वृषाङ्कः शङ्करः शम्भु-र्यः सर्वज्ञो महाव्रती इत्याद्यन्वर्थनामार्ह-नुपदेष्टा शिवस्य यः। तस्मान्नान्यः शिवः कश्चित्, मूर्तो तेनाऽस्य सान्तता न गौरीशो न कालीशः, खण्डपशुधरो न वा। न रुद्रो भैरवो नोग्रो, न भीमो वा नटेश्वरः गौरी सती गले यस्य, लग्ना काली ततोऽभवत् / आर्यापि चण्डी तद्भक्ते, युक्तं स्याद्भवसेवक: स्पष्टा न भोगैर्या गङ्गा, ब्रह्मचारी यदङ्गजः / शिवेन शिरसोदूढा-प्यपतल्लवणाम्बुधौ ध्यायन् श्मशानवेश्मानं, तं भक्तेः शिवमीक्षते / वह्निर्जलायते तस्य, विषमप्यमृतायते 206 // 6 // // 7 // // 8 // // 9 // // 10 //