________________ // 11 // // 12 // // 13 // // 14 // // 15 // श्रोतव्यश्चापि मन्तव्यः, साक्षात्कार्यश्च भावनैः / जीवो मायाविनिर्मुक्तः, स एष परमेश्वरः / श्रोतव्योऽध्ययनैरेष, मन्तव्यो भावनादिना / निदिध्यासनमस्यैव, साक्षात्काराय जायते साक्षाच्चक्रुः पूर्वमतं, ये ध्यानात् परमर्षयः / तेऽपि ध्येयाः सदामीषां, शुद्धाचरणचिन्तया यो ध्यायति यथाभावं, तादात्म्यं लभते हि सः / संसर्गयोगाद् ध्यानेन, भ्रमरी स्यादिहेलिका पिण्डस्थं च .पदस्थं च, रूपस्थं रूपवर्जितम् / चतुर्धा ध्यानमाम्नातं, तादात्म्यप्रतिपत्तये ये दिव्यरूपा मुनयः, सिद्धास्तन्नामजापतः। पदस्थं खलु रूपस्थं, स्यात्तेषां स्थापनादिषु स्वस्मिन्नेव च ताद्रूप्ये, पिण्डस्थं भाविते सति / आत्मन्येव यदात्माथाः, स्थितिस्तद्रूपवर्जितम् सिद्धा नैकेन तन्मूर्ति- तेषु ध्यानगोचराः / / ज्ञानदानात्पूर्वदशा-ध्येयैषां गौरवे ततः ज्ञानेप्याद्योऽहंदादिर्य-स्तंद् ध्यानार्चा नमस्क्रियाः / तादात्म्या प्राप्तये ध्यातः, पूजकादेरपि क्रमात् अर्हद्गुर्वोः स्मृतिःसेवा, तत्त्वश्रद्धा च पूजना / तदैकाग्रये तदीयाज्ञा, विप्रस्येव महाश्रियै व्यक्तशक्तिभक्तिरूपा-चारः संसारपारदः / धर्मस्य विनयो मूलं, प्रथमं सिद्धिसाधनम् // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // 191 .