________________ // 156 // // 157 // // 158 // // 159 // // 160 // // 161 // दोषः स्तोकोऽपि नीचानां, जगदुद्वेगकारणम् / वृश्चिकानो विर्ष दुष्ट,-मपि पुच्छाऽग्रगं विषम् सदुक्तिरपि दोषाय, कदाग्रहजुषां सखे ! / संनिपातवतां सर्पि,-ष्पानं तवृद्धये न किम् ? भवन्ति सुमनःसङ्गा,-दपि क्षुद्रास्तदन्तिनः / यत्तिला मिलिताः पुष्प,-र्बभूवुस्तन्मया इव / वाचोऽपि जडतः प्रादु,-भूताः सन्तापहेतवे / जाता जीमूततो विद्यु,-न्न स्यात् किं दाहदायिनी ? क्षुद्रात्मानोऽन्तरागत्य, सृजन्ति महतां क्षितिम् / मशका: करिकर्णान्तः, प्रविश्य घ्नन्ति तं न किम् ? स्यादपि स्वल्पसत्त्वानां, भूयसी भीमहात्मनाम् / मशका यान्तु मा श्रुत्यो,-भियेतीभश्चलश्रवाः महान् सद्यः समुत्पन्नो,-ऽप्युपकाराय भूयसे / व्यजनोद्भूतोऽपि वातः, शैत्यं धत्ते न किं द्रुतम् ? महस्विनोऽप्यवश्यं स्यात्, तुच्छात्माऽनर्थकारणम् / तृणलेशेऽन्तःपतिते, बाष्पपातो न किं दृशोः ? . महात्मनां विपत्तौ स्या,-दुत्साह: श्यामलात्मनाम् / किमस्तसमये भानो,-र्न च्छाया वृद्धिभागभूत् ? श्यामात्मानः समायान्ति, न्यत्कृता अपि सत्वरम् / / झटित्येव यदुद्यान्ति, मुण्डिता अपि मूर्धजाः महानास्तां तदभ्यर्ण,-भाजोऽपि दृग्गरीयसी। कुञ्जराः कीटिकाकल्पाः, शैलमूर्धनि तस्थुषाम् लघोस्तेजस्विताऽपि स्या,-न्महतोऽपि लघुत्वकृत् / संक्रान्तो मुकुरकोडे, भूधरः कर्करायते // 162 // // 163 // // 164 // // 165 // // 166 // // 167 // 30