________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // दोषं विशेषतः स्थाना,-ऽभावाद्याति गुणः सखे ! / न निन्द्या स्तनयोर्जज्ञे, नम्रताऽभिमताऽपि किम् ? गते तेजसि सौभाग्य,-हानिर्योतिष्मतामपि / यनिर्वाणः शमीगर्भो, रक्षेयमिति कीर्त्यते प्रायः पापेषु पापानां, प्रीतिपीनं भवेन्मनः / पिचुमन्दतरुष्वेव, वायसानां रतिर्यतः प्रायशस्तनुजन्मानो,-ऽनुयान्ति पितरं प्रति / धूमाज्जाते हि जीमूते, कलितः कालिमा न किम् ? नेशाः कर्तुं वयं वाचां, गोचरं गुणगौरवम् / यत् सच्छिट्रोऽपि मुक्तौघः, कण्ठे लुठति यद्वशात् आत्मकृत्यकृते लोकै,-र्नीचोऽपि बहु मन्यते / धान्यानां रक्षणाद् रक्षा, यद्यनेन विधीयते सतां यत्रापदः प्रायः, पापानां तत्र संपदः / मुद्रिताक्षेषु लोकेषु, यद् घूकानां दृशः स्मिताः मानितोऽप्यपकाराय, स्यादवश्यं दुराशयः / कि मूर्ध्नि स्नेहनाशाय, नारोपित(:) खलः खलु ? नोपैति विकृति कामं, पराभूतोऽपि सज्जनः / यन्मर्दितोऽपि कर्पूरो, न दौर्गन्ध्यमुपेयिवान् विपत्तावपि माहात्म्यं, महतां भृशमेधते / / सौरभं काकतुण्डस्य, किमु दाहेऽपि नाऽभवत् ? स्तोकोऽपि गुणिसंपर्कः, श्रेयसे भूयसे भवेत् / लवणेन किमल्पेन, स्वादु नान्नमजायत ? भवन्ति परसंपत्तौ, पुण्यात्मानः सदाशयाः / नभोनैर्मल्यमालोक्य, शरद्यम्भोऽभवच्छुभम् 19 // 30 // // 31 // // 32 // // 33 // // 34 // // 35 //