________________ // 38 // // 40 // ज्ञानं सुधार्य हृदि पुण्यशीले धार्ये तपस्तप्यमधारि नित्यम् / पूजा सुकार्या जिनपुङ्गवानां भक्तिर्गुरोहृद्यतमोद्यमश्च // 36 // येषाङ्केषाञ्च जीवानां प्राणानामतिपातनम् / प्राणातिपात इत्याहुः सर्वज्ञा ज्ञानभासुराः // 37 // यथा प्राणाः प्रियाः स्वस्य तथाऽन्यस्यापि सद्धिया / ज्ञात्वेति परप्राणानां नो बाधा क्रियतां क्वचित् आयाति यदि रक्षार्थी द्वेष्योऽपि तृणवक्त्रकः / सतां सोऽपि न वा हिंस्यः किमुत तृणवृत्तयः // 39 // न धर्मो जातु दृष्टश्च श्रुतोऽपि शास्त्रविस्तरे। हिंसामयः परश्चाज्ञै-दूषितोऽयन्तया न किम् ? प्रमाद्यति कुतो विद्या निरुद्योगे कुतो धनम् ? / कापट्ये च कुतः सख्यं तथा धर्मो न हिंसया // 41 // यथाऽम्भसि निमज्जन्ति शिलया तर्तुमिच्छवः / . दुर्गति यान्ति तद्वद्धि हिंसाऽध्वचारिमानवाः // 42 // लावण्येन विना रूपं विना विद्यां वपुस्तथा। विना वारि सरस्तेन कमलानि न माधुपैः // 43 // नरं विना यथा नारी वल्ली पादपमन्तरा / तमी विना निशानाथो गृहम्पुत्रादिकं विना .. // 44 // शीलं विना यथा साधुर्नदी नीरं विना तथा। न शोभते यथा सम्यग् धर्मोऽपि हिंसया तथा // 45 // स्वात्मादिवत्सर्वमिदं विविच्य, प्राणातिपातो नरकप्रदाता / नो जातु कार्यो मनसा न चिन्त्यो, भव्यैरिहामुत्र सुखाप्तिकामैः॥ 46 // स्वचातुर्यप्रकाशाय परवञ्चनहेतवे। . मृषा यत्प्रोच्यते वाक्यं मृषावादः स कथ्यते // 47 // 213