________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // निर्दोषः सुतराङ्कश्चित् सदोषो नितरान्तथा / विद्यते न च ना लोके यतो द्वन्द्वमयञ्जगत् शैत्यं हिमालये दोषः सिन्धौ क्षारत्वमित्यपि / प्रायो दोषोऽस्ति सर्वत्र, त्यक्त्वा केवलिनं विभुम् सन्ति सन्तः सदा सन्तः स्वभावादेव भूतले। दुर्जना अपि तादृक्षाः सन्तूपदेशपानतः अपास्य गुणरत्नानि द्वेषक्ष्वेडमलन्तराम् / गृह्णन्ति दुधियः प्रायो विशीर्यन्ते यतः स्वयम् गुणपीयूषपानेहाः सदा सन्तु शिवार्थिनः / हंसवृत्ति समाश्रित्य विलसन्तु यथासुखम् सुपात्रे भाति सद्विद्या मुकुरान्तर्यथाऽऽननम् / कलाऽपि विलसत्यस्मिन् रक्तिमेव सुवाससि कुपात्रेऽनर्थकारिण्यः कलाविद्यारमादयः / जायन्ते कुसुते शिक्षा गुरुणामिव दुधियि . सन्यायपथमाश्रित्य व्यवहरन्ति ये नराः। त एव सत्यसङ्कल्पास्त एव सत्यभाषिणः धर्म एव सखा लोके गरीयान् दुःखहा तथा / सरीसति नरीनति तेनैवेप्सितधामनि उद्यमादपरो नास्ति मित्रं सत्सौख्यकारकः / / विद्यातुल्यं धनं नास्ति यद्धि कैश्चिन गृह्यते अमात्यश्चारुचारित्रो राज्यभूषणमुच्यते / समुद्रस्येव गाम्भीर्य्य देहस्याऽपि तथैव च विद्यैव विमला लोके सौष्ठवाकृतिरङ्गिनः / भूषणश्चापि देहस्य धर्माध्वगतिरुत्तमम् 211 // 18 // // 19 // // 20 // // 21 // // 22 // // 23 //