________________ // 33 // * // 34 // // 35 // // 36 // // 37 // // 38 // देशकालादितुल्यत्वेऽप्येकस्य व्यवहारिणः / भूयिष्ठो जायते लाभो मूलनाशोऽपरस्य तु एवंविधानां कार्याणां ज्ञेयं कर्मैव कारणम् / न विना कारणं कार्यवैचित्र्यमुपजायते मूर्तानां कर्मणां जीवेनामूर्तेन च संगमः / समीचीनः सोऽपि नूनमाकाशघटयोरिव उपघाताऽनुग्रहाश्च नानाविधसुरौषधैः / अमूर्तेऽपि भवन्तीति निरवद्यमदोऽपि हि एवं च स्वामिना च्छिनसंशयस्त्यक्तमत्सरः / अग्निभूतिः प्रवव्राज शिष्यपञ्चशतीयुतः तस्मिन्नपि प्रव्रजिते वायुभूतिय॑चिन्तयत् / जितौ मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः तदेतस्य भगवतोऽभ्यर्हणावन्दनादिभिः / धौतकल्मषकालुष्यः स्यां छिनद्मि च संशयम् एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च / स्वाम्यप्युवाच जीवः स तद्वपुश्चेति ते भ्रमः प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि / जलबुबुदवत्सोऽङ्गे मूर्च्छतीति तवाशयः मिथ्या तद्देशप्रत्यक्षो जीवः सर्वशरीरिणाम् / तद्गुणानामीहादीनां प्रत्यक्षत्वात्स्वसंविदा देहेन्द्रियातिरिक्तः स इन्द्रियाऽपगमेऽपि यत् / इन्द्रियार्थान् संस्मरति मरणं च प्रपद्यते इति स्वामिमिरा च्छित्रसंशयो विमुखो भवात् / पर्यव्राजीद्वायुभूतिः शिष्यपञ्चशतीयुतः 328 // 39 // // 40 // // 41 // // 42 // . // 44 //