________________ // 40 // // 41 // // 42 // // 43 // दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकर्ती, पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकी वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कृतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैजिने पूजिते / दीपैर्जानमनावृतं निरुपमा भोगर्द्धिरत्नादिभिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि / संसारः सुतर: शिवं करतलकोडे लुठत्यञ्जसा, यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः जिनपूजनं जनानां जनयत्येकमपि सम्पदो विपुलाः / जलमिव जलदविमुक्तं काले शस्यश्रियो ह्यखिलाः नरेषा भववारिधौ शिवपदप्रासादनिःश्रेणिका, मार्गः स्वर्गपुरस्य दुर्गतिपुरद्वारप्रवेशार्गला। . कर्मग्रन्थिशिलोच्चयस्य दलने दम्भोलिधारासमा, कल्याणैकनिकेतनं निगदिता पूजा जिनानां परा दर्शनादुरितध्वंसी वन्दनाद्वाञ्छितप्रदः / पूजनात्पूरकः श्रीणां जिनः साक्षात् सुद्रुमः .. पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं, पुण्यं सञ्चिनुते श्रियं वितनुते पुष्णाति नीरोगताम् / सौभाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः, स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता संवच्छरचाउम्मासी एसु अट्ठाहियासु अ तिहीसु / सव्वायरेण लग्गइ जिणवरपूआतवगुणेसु // 44 // // 45 // // 46 // // 47 //