________________ न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्तनम् / रागद्वेषविमुक्तानां प्रवृत्तिरपि तज्जयः - // 28 // अशक्यो विषयो स्प्रष्टुमिन्द्रियैः स्वसमीपगः / रागद्वेषौ पुनस्तत्र मतिमान् परिवर्जयेत् -: // 29 // हताहतानीन्द्रियाणि सदासंयमयोगिनाम् / अहतानि हितार्थेषु हतान्यहितवस्तुषु // 30 // जितान्यक्षाणि मोक्षाय संसारायाजितानि तु / तदेतदन्तरं ज्ञात्वा यद्युक्तं तत्समाचरेत् // 31 // स्पर्शे मृदौ च तूलादेरुपलादेश्च कर्कशे / भवेद्रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् // 32 // रसे स्वादे च भक्ष्यादेरितरस्मिन्नथापि वा / प्रीत्यप्रीती विमुच्योच्चैजिह्वेन्द्रियजयी भवेत् .. // 33 // घ्राणदेशमनुप्राप्ते शुभे गन्धे परत्र वा।। ज्ञात्वा वस्तुपरीणामं जेतव्यं घ्राणमिन्द्रियम् // 34 // मनोज्ञं रूपमालोक्य यदि वा तद्विलक्षणम् / त्यजन् हर्षं जुगुप्सां च निर्जयेच्चक्षुरिन्द्रियम् // 35 // स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे / रति जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भवेत् // 36 // कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा / य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ? // 37 // शुभा अप्यशुभायन्ते शुभायन्तेऽशुभा अपि। . विषयास्तक्व रज्येत ? विरज्येत क्व चेन्द्रियैः ? // 38 // स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः / / शुभाशुभत्वं भावानां तन्न तत्त्वेन जातुचित् / // 39 // 309