________________ // 4 // // 8 // . // 9 // विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः / हन्यते हैमनं जाड्यं न विना ज्वलितानलम् अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः / आकृष्य नरकारण्ये जन्तुः सपदि नीयते इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते / वीरैः कृष्टेष्टकः पूर्वं वप्रः कैः कैर्न खण्ड्यते कुलघाताय पाताय बन्धाय च वधाय च / अनिर्जितानि जायन्ते करणानि शरीरिणाम् इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते / अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते / यद् बन्धौ बाहुबलिनि भरतोऽप्यस्त्रमक्षिपत् जयो यद्बाहुबलिनि भरते च पराजयः / जिताजितानां तत्सर्वमिन्द्रियाणां विजृम्भितम् यच्छस्त्राशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः / दुरन्तानामिन्द्रियाणां महिमानेन लभ्यते दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो नराः। - शान्तमोहाः पूर्वविदो दण्ड्यन्ते यत्तदद्भुतम् जिता हषीकैरत्यन्तं देवदानवमानवाः / जुगुप्सितानि कर्माणि ही तन्वन्ति तपस्विनः अखाद्यमपि खादन्ति चाप्यपेयं पिबन्ति च / अगम्यं चापि गच्छन्ति हृषीकवशगा नराः . वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते। . कुलशीलोज्झितास्त्यक्तकरुणैः करणैर्हताः / // 10 // . 4 . // 12 // // 14 // // 15 // 304