________________ // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च / को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ? - येनैव तपसा त्रुटयेत् तरसा कर्मसंचयः / तेनैव मददिग्धेन वर्धते कर्मसंचयः स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया / सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माणधारणम् / कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ? उत्सर्पयन् दोषशाखां गुणमूलान्यधो नयन् / उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः मार्दवं नाम मृदुता तच्चौद्धत्यनिषेधनम् / मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् अन्तः स्पृशेद् यत्र यत्रौद्धत्यं जात्यादिगोचरम् / . तत्र तस्य प्रतीकारहेतोर्मार्दवमाश्रयेत् सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशेषतः / . येन पापाद् विमुच्येत पूज्यपूजाव्यतिकमात् मानाद् बाहुबलिर्बद्धो लताभिरिव पाप्मभिः / मार्दवात् तत्क्षणं मुक्तः सद्यः संप्राप केवलम् चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु / , भिक्षायै यात्यहो ! मानच्छेदायामृदुमार्दवम् चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधवे / नमस्यति त्यक्तमानश्चिरं च वरिवस्यति एवं च मानविषयं ज्ञात्वा दोषमशेषतः / . अश्रान्तमाश्रयेद् धीमांस्तन्निरासाय मार्दवम् 290 // 57 // // 58 // // 59 // // 60 // // 61 // // 62 //