________________ // 20 // // 21 // // 22 // . // 23 // // 24 // // 25 // स्वल्पेष्वप्यपराधेषु क्षणाच्छापं प्रयच्छताम् / ' लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते / जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् / क्व मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ? दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः / भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् ? गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा / द्विजन्मनां कथं मुक्तिर्लोभैककुलवेश्मनाम् ? अरक्त-द्विष्ट-मूढानां केवलज्ञानशालिनाम् / अनवद्या तत इयं धर्मस्वाख्याततोऽर्हताम् रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता / तदभावे कथं नामार्हतां वितथवादिता ? ये तु रागादिभिर्दोषैः कलुषीकृतचेतसः / न तेषां सूनृता वाचः प्रसरन्ति कदाचन तथा हि याग-होमादिकर्माणीष्टानि कुर्वताम् / वापी-कूप-तडागादीन्यपि पूर्वान्यनेकशः पशूपघाततः स्वर्गिलोकसौख्यं विमार्गताम् / द्विजेभ्यो भोजनैर्दत्तैः पितृतृप्ति चिकीर्षताम् घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् / पञ्चस्वापत्सु नारीणां पुनरुद्वाहकारिणाम् अपत्यासंभवे स्त्रीषु क्षेत्रजापत्यवादिनाम् / सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् श्रेयोबुद्ध्याध्वरहतच्छागशिश्नोपजीविनाम् / सौत्रामण्यां सप्ततन्तौ सीधुपानविधायिनाम् 284 // 26 // // 27 // // 28 // // 29 // // 30 // // 31 //