________________ // 28 // अब्रह्म परिहर्त्तव्यमब्रह्मचरणेन हि / . .. धृत्वा गले रङ्क इव, नीयते नरके जनः .. परिग्रहो न कर्त्तव्यः, परिग्रहवशेन यत् / दुःखपङ्के जनो मज्जत्यतिभारेण गौरिव ... पञ्चाऽप्यमूनि हिंसादीन्युत्सृजेद् देशतोपि यः। उत्तरोत्तरकल्याणसम्पदां सोऽपि भाजनम् // 29 // . // 30 // // 2 // // 3 // // 4 // ॥लब्धीनां, स्वरूपम् // एकादशाङ्गयाः पारीणा, जाता बाह्वादयोऽपि ते / क्षयोपशमवैचित्र्याच्चित्रा हि श्रुतसम्पदः तीर्थकृत्पादसेवायास्तपसो दुश्चरस्य च / असन्तुष्टाः सदाऽभूवंस्ते सन्तोषधना अपि ते नित्यं तीर्थकृद्वाणीपीयूषरसपायिनः / अपि मासोपवासादितपसा नैव चकलमुः भगवान् वज्रसेनोऽपि, शुक्लध्यानं श्रितोऽन्तिमम् / निर्वाणं प्राप गीर्वाणप्रपञ्चितमहोत्सवम् सेनाभिरिव धर्मस्य, वृतो व्रतसनाभिभिः / / मुनिभिर्वज्रनाभोऽपि, विजहार वसुन्धराम् स्वामिना व्रजनाभेन, बावाद्याः स च सारथिः / सनाथा जज्ञिरे पञ्चेन्द्रियाणीवाऽन्तरात्मना तेषां योगप्रभावेण, सर्वाः खेलादिलब्धयः / . . औषध्य इव शैलानामा विरासन् शशित्विषा तेषां श्लेष्मलवेनाऽपि, संश्लिष्टं कुष्ठिनो वपुः / . कोटिवेधरसेनेव, ताम्रराशिः सुवर्ण्यभूत् / 200 // 7 //