________________ // 184 // // 185 // * // 186 // . // 187 // // 188 // // 189 // अद्विजिह्वाः फणभृतो, बहिः, श्लक्ष्णा भयङ्कराः / अन्तर्विषभृतो दूर, वर्जनीयाः शठा जनाः / शठानि यस्य मित्राणि, शठा यस्य गृहे स्त्रियः / उन्नतिस्तस्य दूरस्था, जीवितव्येऽपि संशयः येषां योगत्रयस्यापि, संवादो नैव दृश्यते / तेषां शठात्मनां कार्ये, संवादः केन मृग्यते यदि मायाहतो धर्मो, हतं सत्यं शठात्मनः / सर्वाविश्वासहेतुश्च, मायावी जायते नरः निर्दोषोऽपि च मायावी, जनसन्त्रासकारणम् / अथवाऽहेम॒तस्यापि, किं न बिभ्यति देहिनः ? ततो माया परित्याज्या, सर्वथा धार्मिकैर्जनैः / ततो धर्मस्ततः सत्यं, ततः सर्वेऽपि सद्गुणाः नदीनाथं तरन्त्येके, विशन्त्यन्ये रसातलम् / खनन्त्येके खनि लोका, लोभः सर्वत्र कारणम् . रङ्गभूमौ च वंशाग्रे, कृतनानाविडम्बना / नृत्यन्ति यन्नराः केचिल्लोभस्तत्रापि कारणम् यत्सेवां कुर्वते केचित्खड्गव्यग्रकरा नराः / जीव नन्दन्ति जल्पन्तो, हेतुस्तत्रापि नापरः वञ्चयति पिता पुत्रं, पुत्रोऽपि पितरं निजम् / यत्र लोभो न तत्रान्यो, धिग्धिग्लोभमहो जनाः स ज्ञानलाभकालेऽपि, लोभः कष्टात्प्रलीयते / शेषेष्वपि कषायेषु, तिलतैलमिव स्थितः त्रैलोक्यगतजीवानां, चित्ते चित्ते व्यवस्थितः / एकधा बहुधा लोभो, दृश्यते जलचन्द्रवत् 110 // 190 // // 191 // // 192 // // 193 // // 194 // // 195 //