________________ // 204 // // 205 // // 206 // . // 207 // // 208 // // 209 // यैर्ममत्वं सदा त्यक्तं स्वकायेऽपि मनीषिभिः / ते पात्रं संयतात्मानः सर्वसत्त्वहिते रताः परीषहजये शक्तं शक्तं कर्मपरिक्षये / ज्ञान-ध्यान-तपोभूषं शुद्धाचारपरायणम् प्रशान्तमानसं सौम्यं प्रशान्तकरणं शुभम् / प्रशान्तारिमहामोहं काम-क्रोधनिषूदनम् निन्दा-स्तुतिसमं धीरं शरीरेऽपि च निःस्पृहम् / जितेन्द्रियं जितक्रोधं जितलोभमहाभयम्’ राग-द्वेषविनिर्मुक्तं सिद्धिसङ्गमनोत्सुकम् / . ज्ञानाभ्यासरतं नित्यं नित्यं च प्रशमे स्थितम् एवंविधं हि यो दृष्ट्वा स्वगृहाङ्गणमागतम् / मात्सर्यं कुरुते मोहात् क्रिया तस्य न विद्यते मायानिरसनं कृत्वा तृष्णां च परित्यज्य ते / राग-द्वेषौ समुत्सार्य प्रयाताः पदमक्षयम् धीराणां यतयो धीरा ये निराकुलचेतसः। . कर्मशत्रुमहासैन्यं निर्जयन्ति तपोबलात् परीषहजये शूराः शूराश्चेन्द्रियनिग्रहे। कषायविजये शूरास्ते शूरा गदिता बुधैः नादत्तेऽभिनवं कर्म सच्चारित्रनिविष्टधीः / पुराणं निर्जयेद् बाढं विशुद्धध्यानसङ्गतः संसारावासनिवृत्ताः शिवसौख्यसमुत्सुकाः / सद्भिस्ते गदिताः प्राज्ञाः शेषास्त्वर्थस्य वञ्चकाः समतां सर्वभूतेषु यः करोति सुमानसः / ममत्वभावनिर्मुक्तो यात्यसौ पदमव्ययम् . // 210 // // 211 // "पलात् .. // 212 // // 213 // // 214 // ' // 215 / / 128