________________ // 4 // __ पू.आ.श्री परमानंदसूरि विरचितम् // प्रव्रज्याविधानकुलकम् // (प्रवजितहितशिक्षाकुलकम्) त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा / लब्धा सम्प्रति यदसा-वतिदुष्प्रापाऽऽगमेऽभिहिता // 1 // तथाहि पञ्चेन्द्रियत्वनृत्वा-ऽऽर्यदेशकुलकल्पतायुषां भावे / सद्गुरुसङ्गश्रवण-श्रद्धासु च सर्वविरतिः स्यात् // 2 // तदिमां चिन्तामणिकामधेनुकल्पद्रुमोपमां लब्ध्वा / दीक्षां क्षणमपि कार्यो न हि प्रमादस्त्वया तस्याम् ग्रहणाऽऽसेवनशिक्षाविषये यतितव्यमविरतमिदानीम् / धर्मतरुमूलकल्पे विनयेऽभिरतिर्विधातव्या पञ्चमहाव्रतरत्नानि नित्यमेवानुशीलनीयानि। षड्विधजीवनिकायो, हि रक्षणीयः स्वजीववत् (इव) // 5 // वाक्यं मृषा न वाच्यं, परपीडाहेतुकं च सावद्यम् / नैवादत्तं स्तोकमपि, वस्तु परकीयमादेयम् . चरणीयं ब्रह्मव्रत-मनघं श्रीस्थूलभद्रमुनिनेव / मूर्च्छपरिग्रहोऽपि च, परिहार्योऽनेकदोषनिधिः // 7 // वयं च चतुर्भङ्ग्यपि, सर्वदा रात्रिभोजनं सर्वम् / विज्ञानाराधनयो-र्यतितव्यं चरणकरणानाम् दशविधदशधासामा-चार्याः कार्यस्तथाऽऽदरः परमः / सच्चक्रवालसामा-चारी चाहर्निशं सेव्या // 9 // अष्टावप्याराध्या, मातर इव मातरः प्रवचनस्य / शीलाङ्गानामष्टा-दशसाहस्री च वोढव्या // 10 // कार्या च पिण्डशय्या-कर्पटयात्रादिविषयिणी शुद्धिः / ग्रामकुलस्वजनांदिषु, परिहरणीयं ममत्वं च // 11 // 43 // 8 //