________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // केषां न कल्पनादर्वी, शास्त्रक्षीरानगाहिनी / स्तोकास्तत्त्वरसास्वाद,-विदोऽनुभवजिह्वया जितेन्द्रिया जितक्रोधा, दान्तात्मानः शुभाशयाः / परमात्मगति यान्ति, विभिन्नैरपि वर्त्मभिः नूनं मुमुक्षवः सर्वे, परमेश्वरसेवकाः / दुरासन्नादिभेदस्तु, तद्भूत्यत्वं निहन्ति न नाममात्रेण ये दृप्ता, ज्ञानमार्गविवर्जिताः / न पश्यन्ति परात्मानं, ते घूका इव भास्करम् श्रमः शास्त्राश्रयः सर्वो, यज्ज्ञानेन फलेग्रहिः / ध्यातव्योऽयमुपास्योऽयं, परमात्मा निरञ्जनः नान्तराया न मिथ्यात्वं, हासो रत्यरती च न / न भीर्यस्य जुगुप्सा नो, परमात्मा स मे गतिः न शोको यस्य नो कामो, नाऽज्ञानाविरती तथा / नावकाशश्च निद्रायाः, परमात्मा स मे गतिः रागद्वेषौ हतौ येन, जगत्त्रयभयंकरौ। . स त्राणं परमात्मा मे, स्वप्ने वा जागरेऽपि वा उपाधिजनिता भावा, ये ये जन्मजरादिकाः / तेषां तेषां निषेधेन, सिद्धं रूपं परात्मनः अतद्व्यावृत्तितो भिन्नं, सिद्धान्ताः कथयन्ति तम् / वस्तुतस्तु न निर्वाच्यं, तत्स्वरूपं कथञ्चन . जानन्नपि यथा म्लेच्छो, न शक्नोति पुरीगुणान् / प्रवक्तुमुपमाऽभावात्, तथा सिद्धसुखं जिनः सुरासुराणां सर्वेषां, यत्सुखं पिण्डितं. भवेत् / एकत्राऽपि हि सिद्धस्य, तदनन्ततमांशगम् // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // 303