________________ यद्गृह्यते तदिह वस्तु गृहीतमेव तद्गृह्यते च न च यत्तु गृहीतमास्ते। इत्थं भिदामपि स किं न विदांकरोतु यः पाठितो भवति लक्षणभङ्गजालम् तत्त्वं ह्यबुद्ध्यत शिशुर्भवतः किलेदं, षड्वार्षिकोऽपि भगवन्नतिमुक्तिकर्षिः जानन्ति ये न गतवर्षशतायुषोऽपि, धिक् तेषु मोहनृपतेः परतन्त्रभावम् आवृत्यनावृतिपदेऽपि समा दिगेषा, जात्यावृतौ भवति वैनयिकी कथं धीः / . चित्रा च जातिरवयव्यपि तद्वदेव, चित्रो भवन तनुते भुवि कस्य चित्रम् - . // 56 // एकत्र देशभिदयानुभवेन कम्पाकम्पावपि प्रकृतवस्तुनि भेदकौ स्तः / धीविप्लवोपगमतश्च न चेद्विभागसंयोगभेदपरिकल्पनया च दोषः।।५७॥ न व्याप्यते यदि भिदाऽनुभवाश्रयत्वादेकत्र रक्तिमविपर्ययोविरोधः / सर्वत्र तच्छबलताप्रतिबन्धसिद्धिर्दुर्वादिंकुम्भिमदमर्दनसिंहनादः।।५८॥ तद्देशतेतरपदेऽपि समा दिगेषा, चित्रेतरत्वविषयेऽप्ययमेव पन्थाः / द्रव्यैकतावदविमीततया प्रतीतेः, क्षेत्रकतापि न च विभ्रमभाजनं स्यात् स्थूलाणुभेदवदभिन्नपरानपेक्षसद्व्यापकेतरनिषेधकशून्यवादाः। .. एतेन तेऽभ्युपगमेन हताः कथञ्चित्, त्वच्छासनं न खलु बाधितुमुत्सहन्ते एतेन ते गुणगुणित्वहतेनिरस्तं, नैरात्म्यमीश समयेऽनुपलब्धितश्च / आत्मा यदेष भगवाननुभूतिसिद्ध, एकत्वसंवलितमूर्तिरनन्तधर्मा॥६१॥ भिन्नक्षणेष्वपि यदि क्षणता प्रकल्प्या, क्लुप्तेषु सास्त्विति जगत्क्षणिकत्वसिद्धिः / तद्र्व्यता तु विजहाति कदापि नो तत्सन्तानतामिति तवायमपक्षपातः // 62 // न द्रव्यमेव तदसौ समवायिभावात् पर्यायतापि किमु नात्मनि कार्यभावात् उत्पत्तिनाशनियतस्थिरतानुवर्ति, द्रव्यं वदन्ति भवदुक्तिविदो न जात्या 294