________________ // 18 // / 19 इदमाननराजराज्यतः, कचरूपं स निबध्यते तमः / तदमुख्यविमुक्तियुक्तिमानथ मल्लः करदानमर्हतु // 14 // चिकुरालिमयीं नु तामसी, पथि सीमन्तमये स्थितः स्मरः / जनमोहकृते समस्मरत्, कृतसिन्दूरसमर्चनाविधि: // 15 // कविभिः क्रियतां विशालतद्विलसद्भालविभानिभालनात् / रजनीकरकष्टमष्टमीरजनीमण्डनखण्डनं तपः // 16 // मदनस्य चतुर्भुजात्मनो, धनुरीशः स मुधा द्विधाऽकरोत् / जनयन् स हि तत्तु तभ्रुवौ, युगपत् तौ निजघान दम्पती // 17 // त्रिजगज्जयसावधानताप्रधनौद्धत्यविलम्बितत्यजः / मदनस्य धनुर्हि तद्धृवौ, नियतं न श्रवणान्तिकत्यजौ इदमीयदृशौ हि पक्ष्मले, मदनोन्मादविघूर्णिते इव। . रवि-बोधित-चारुकेसर-प्रथिताम्भोज-विडम्बिडम्बरे श्रुतिगामितदीयनेत्रयोर्न बुधो विप्रतिपद्यते स्मरः / . वदनास्थितरङ्कुसङ्ग्रहान्ननु राज्ञोऽपि कलङ्कितोचिता // 20 // इदमीयदृशा बलस्य तच्छ्रवणान्दोलनलोललीलया / नियतं सहचारिणो मधोमधुमित्रस्य हि तद्विजृम्भितम् // 21 // श्रयतां शशिनस्तदाननासहनं तद्वदनश्रिया जितः / अधुना तु धुनातु नातुरो, हरिणः पङ्कतयार्जितायशः // 22 // भजते हरिणो द्विजाधिपं, न तु देवञ्च विधि.सरोरुहम् / इदमीयदृशा हृतश्रियोर्नहि निर्भीकतयानयोः स्थितिः // 23 // मृगखञ्जनपङ्कजान्यहो, वनमेतानि सुखं विषेहिरे / स्फुरदायततदृशोः पुरो, न पुनः स्थातुमिमैरसह्यत // 24 // कुसुमानि शराः स्मरस्य ते, हरकोपाग्निहुतास्तथोचितम् / इयमेव जगज्जयाय यनिशितान् दृष्टिशरान् व्यतीतरत् // 25 // 277