________________ स ह्यनन्तबल इत्यभिजल्पत्यत्र तत्र जगदुः कृषिकाराः / अन्तमेति ननु तद्बलमस्मद्देशपेशलहलैर्निपतद्भिः // 51 // उत्थितैः क्षितितृणादिखनद्भित्रिपाणिभिरभण्यत वाणी। तद्भटायुधयश:शितदात्रश्रेणिरेव पिबति प्रसभं नः // 52 // तं प्रतिप्रबलगर्वभृतैर्वाक् तत्र मक्षुरथकृद्भिरभाणि / ईश्महे विभुबले तव दातुं छिनकाष्ठनिचयैरपि कष्टम् // 53 / / पशुपाणिभिरपि स्वमुखेन्दो: कीलितः सकलया किल वाचा। किं न न: करशयालुकुठारास्त्वत्प्रभोर्बलगदप्रतिकाराः / / 54 / / गा इव त्वदधिपस्य भटान् द्राग् चण्डदण्डहतिभिर्वशयामः / आदिशेत् सपदि बाहुबली चेद् गोदुहोऽपि गिरमाहुरितीमाम् / / 55 / / एवमेष विनिरीक्ष्य सुनन्दानन्दनान्यनृपनाम्न्यसहिष्णून् / तज्जनान् व्यचरदाहितमुद्रो वाचि साचिवदनस्फुटलज्जः // 56 // पालितांसुबहुलङ्घितभूमिभूमिपालविधुना क्रमतोऽसौ / नेत्रयोळधित तक्षशिलां तां चन्द्रिकां कुवलये कृतहर्षाम् // 57 / / चित्रिते रतिमनाप्प रथाङ्गेयद्गृहोच्चशिंखरस्थितिभाजि / विह्वला त्रिदशसिन्धुरथाङ्गी न स्म विश्वसिति[...]रथाङ्गे // 58 // . रत्नराशिषु हृतेषु ययोच्चैर्नन्वभूज्जलनिधिर्जलशेषः / यां रुरोध किमु तद्ग्रहणार्थं तेन नैष परिखाऽपरवेषः // 59 // सान्द्रविद्रुमघनो घुसृणौघैः फेनिलः प्रसृतचन्द्रपरागैः। आश्रितो मृगमदैर्मलिनाभैरध्वनत् पटुवदापणवार्द्धिः // 60 // सम्पुटीकृतनभोऽन्तरिता द्योस्तिष्ठति स्म विजितेव ययोच्चैः / पृष्ठतस्तदभिधा वनभीत्या रन्ध्रदत्तचलतारकनेत्रा // 61 // यत्र नीलशितिशुभ्रमणोनामंशुभिर्नृपगृहोल्लसितानाम् / स त्रिवेणिपयसि प्रतिवेलं मज्जति स्म मिलति द्विजराजः // 62 // 25