________________ // 8 // // 9 // // 10 // // 11 // // 12 // = // 13 // कुशास्त्राभ्याससंभूतं भवनैर्गुण्यदर्शनात् / मोहगर्भ तु वैराग्यं मतं बालतपस्विनाम् सिद्धान्तमुपजीव्यापि ये विरुद्धार्थभाषिणः / तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करम् संसारमोचकादीनामिवैतेषां न तात्त्विकः / शुभोऽपि परिणामो यज्जाता नाज्ञारुचिस्थितिः अमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवलम् / अन्तर्निलीनविषमज्वरानुद्भवसन्निभः कुशास्त्रार्थेषु दक्षत्वं शास्त्रार्थेषु विपर्ययः / स्वच्छन्दता कुतर्कश्च गुणवत्संस्तवोज्झनम् आत्मोत्कर्षः परद्रोहः कलहो दम्भजीवनम् / आश्रवाच्छादनं शक्त्युल्लङ्घनेन क्रियादरः गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः / अनुबन्धाद्यचिन्ता च प्रणिधानस्य विच्युतिः श्रद्धामृदुत्वमौद्धत्यमधैर्य्यमविवेकिता / . वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली ज्ञानगर्भ तु वैराग्यं सम्यक्तत्त्वपरिच्छिदः / स्याद्वादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः मीमांसा मांसला यस्य स्वपरागमगोचरा / बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्भमुदञ्चति न स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि / नासौ निश्चयसंशुद्धं सारं प्राप्नोति कर्मणः सम्यक्त्वमौनयोः सूत्रे गतप्रत्यागते यतः / नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि . 1 // 14 // // 15 // // 16 // // 17 // = // 18 // // 19 //