________________ // 3 // = = // 4 // = = // 7 = // 8 = पक्षपातो न मे वीरे न द्वेषः कपिलादिषु / युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः पुण्योदयभवैर्भावैर्मतं क्षायिकसंगतैः / महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा बहिरभ्युदयादर्शी भवत्यन्तर्गतो गुणः / मणेः पटावृतस्यापि बहिर्कोतिरुदञ्चति भेदः प्रकृत्या रत्नस्य जात्यस्याजात्यतो यथा / तथागपि देवस्य भेदोऽन्येभ्यः स्वभावतः नित्यनिर्दोषताभावान्महत्त्वं नेति दुर्वचः / नित्यनिर्दोषता यस्माद्घटादावपि वर्तते सात्मन्येव महत्त्वाङ्गमिति चेत्तत्र का प्रमा / पुमन्तरस्य कल्प्यत्वाद्ध्वस्तदोषो. वरं पुमान् दोषावरणयोर्हानिनिःशेषास्त्यतिशायनात् / . क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः इत्थं जगदकर्तृत्वेऽप्यमहत्त्वं निराकृतम् / कार्ये कर्तृप्रयोज्यस्य विशेषस्यैव दर्शनात् कर्तृत्वेन च हेतुत्वे ज्ञातृत्वेनापि तद्भवेत् / ज्ञानस्यैव च हेतुत्वे सिद्धे नः सिद्धसाधनम् धृत्यादेरपि धर्मादिजन्यत्वान्नात्र मानता / कृतित्वेनापि जन्यत्वाच्चेत्यन्यत्रैष विस्तरः अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न / शास्त्रे नो गीयते ह्येतदसंख्यं त्रिजगद्गुरोः अत्रोच्यते न संख्यावद्दानमर्थाद्यभावतः / सूत्रे वरवरिकायाः श्रुतेः किं त्वर्थ्यभावतः . 141 // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // =