________________ विभाग-६ 193 सूत्रः- मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः // 39 // मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः / यथोपलब्धिलक्षणप्राप्तस्य मध्यन्दिनोल्काप्रकाशस्य निमित्तादग्रहणमभिभवात् तथोपलब्धिलक्षणप्राप्तस्य चाक्षुषस्य रश्मेरग्रहणं निमित्ताद्रूपस्यानुद्भूतेरिति / मध्यन्दिनोल्काप्रकाशो नोपलभ्यते इति आदित्यप्रकाशात्-आदित्यप्रकाशाभि-भवादियं युक्तम् सर्वरश्मिवत्त्वप्रसङ्गात् -एवं सति सर्वं लोष्टादि रश्मिमत् प्राप्नोति / अथ लोष्टादिरश्मयः कस्मान्नोपलभ्यन्ते इत्यनुक्तो ब्रूयादादित्यरश्म्यभिभवादित्ययुक्तं तदेतदुत्तरद्वारकं सूत्रम् सूत्रः- न रात्रावप्यनुपलब्धेः // 40 // न रात्रावप्यनुपलब्धेः / यदि लोष्टादिरश्मयः स्युर्दिवादित्यप्रकाशाभिभवाच्च नोपलभ्यन्ते इति रात्रौ तर्युपलभ्येरन् रात्रावपि नोपलभ्यन्ते / व्यञ्जकाभावादिति चेत् ? न हि यद्यस्याभिभावकं तत् . . तस्याभिव्यञ्जकमिति / कथं न प्राप्नोति लोष्टादिरश्मीनामुपलम्भः अनुमानतश्च नोपलभ्यते लोष्टरश्मिरित्यपिशब्दात् गम्यते / तदेवं सर्वप्रमाणनिवृत्तेर्न विद्यते लोष्टरश्मिः न पुनरेवं चाक्षुषो रश्मिनिरनुमानः कुड्यादेरावरणस्य सामर्थ्यादिति तस्य विद्यमानस्य बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः // सूत्र:- बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः // 41 // दृष्टान्तस्थान एवैतत् सूत्रम् / किमुक्तं भवति ? यत् खलु बाह्यप्रकाशमपेक्षते तस्यानुपलब्धीरूपानभिव्यक्तित इत्यनुद्भूतेर्यथा विषक्तावयवस्याऽऽप्यद्रव्यस्य रूपानुद्भूतेरग्रहणम् तथा चाक्षुषो रश्मिर्बाह्यप्रकाशानुग्रहमपेक्षते तस्मादस्यापि रूपस्यानुद्भूतेरग्रहणमिति / कस्मात् पुनर्नायनस्य रश्मेरनुपलब्धेरभिभवो न कारणमुच्यते इति ? मोच्यते अभिव्यक्तौ साभिभवात् // 42 // अभिव्यक्तौ चाभिभवात् यदुद्भूतरूपं बाह्यप्रकाशानुग्रहणं च नापेक्षते तदभिभूयते यथा मध्यन्दिनोल्काप्रकाशः, अनुद्भूतरूपस्य नायनो रश्मिर्बाह्यप्रकाशानुग्रहणं चापेक्षते यदनुद्भूतरूपं तन्नाभिभूयते यथा तदेव विषक्तावयवमाप्यं द्रव्यम् / यच्च बाह्यप्रकाशानुग्रहापेक्षं उद्भूतरूपमपि तन्नाभिभूयते यथा घटादिद्रव्यमिति, सोऽयमुभयविषयोऽभिभवो नायनरश्मावनुपपन्न इति विप्रतिपत्तिविषयः / कृष्णसारं रश्मिमत् द्रव्यत्वे सति रूपोपलब्धौ नियतस्य साधनाङ्गस्य निमित्तत्वात् प्रदीपवदिति / अथवा रश्मिमच्चक्षुः द्रव्यत्वे सति नियतत्वे च सति स्फटिकादिव्यवहितार्थप्रकाशकत्वात् प्रदीपवत् // सूत्रः- नक्तञ्चरनयनरश्मिदर्शनाच्च // 43 // नक्तञ्चनयनरश्मिदर्शनाच्चेति दृष्टान्तसूत्रम् / मानुषं चक्षू रश्मिमत् अप्राप्तिस्वभावत्वे सति रूपाद्युपलब्धिनिमित्तत्वात् नक्तञ्चरचक्षुर्वदिति / जातिभेदादिन्द्रियप्रभेद इति चेत् ?-अथ मन्यसे यथा