________________ न्यायात्तम्] [67 न्यायातम पक्षपातः 4/3 पदार्थः | नाम .. व्याख्या गाथा = न्यायेन ब्राह्मणक्षत्रियविट्शूद्राणां स्वजातिविहितव्यापारेणात्तं स्वीकृतम् ! षो. [प] = गुणबहुमान-तत्प्रशंसा-साहाय्यकरणादिना अनुकूला प्रवृत्तिः / यो.शा. 1/53 = गुणानालोचनपूर्व एव रागः / द्वा. पण्डितः = पंडितः सर्वयत्नेन शास्त्रतत्त्वं परीक्षते / तत्त्वतस्तस्य मार्गानुसारितयोत्कृष्टाचारत्वात् / द्वा. = धर्मग्रन्थकरणपेशलमतयः / गु. पदस्थम् = यत् पदानि पवित्राणि समालम्ब्य विधीयते / तत् पदस्थं समाख्यातं ध्यानसिद्धान्तपारगैः // 1 // यो.शा. 8/1 = पद्यते गम्यतेऽर्थः सामान्यरूपोऽचालिताऽप्रत्यवस्थापितो - येनेति / उ.र. 155 पदार्थत्वम् = पदशक्तिविषयत्वम् / त.उ. 1/4 पदार्थरसिकः = आगमोक्तदेवतत्वगुरुतत्त्वागमतत्त्वजीवादिभावप्रीतियुक्तः / पं. 2/34 परपाषण्डसंस्तवः = परपाषण्डै: सह परिचयो यः सः संस्तवो भवति / श्रा. 88 परपाषाण्डानां प्रशंसा = सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां पुण्यभाज एते सुलब्धमेभिर्मानुजं जन्म दयालव एत इत्यादिरूपप्रशंसा / श्रा. 88 परमनिर्वृतिः = सकलसांसारिकसुखातिशायिमोक्षसुखम् / सा. परमपदम् = पुण्यानुबन्धिपुण्यभोगोचितं स्थानम् / गु. परमर्षयः = ऋषयः सामान्यकेवलिनस्तेभ्यः परमाः / त.उ. परमसिद्धिः = अणिमादिसिद्धयपेक्षया प्रधाना पुरुषार्थनिष्पत्तिनिवाणमित्यर्थः / 3/14 परमागमः = यथावस्थितसकलपदार्थसार्थपरमार्थतया प्रधानो य आगमो द्वादशाङ्गीरूपः सिद्धान्तः / स.स. = चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः / अत्यक्षोऽनन्तगुणः परमात्मा कीर्तितस्तज्ज्ञैः // 8 // यो.शा. 12/8 = ज्ञानं केवलसंज्ञं योगनिरोधः समग्रकर्महतिः / सिद्धिनिवासश्च यदा परमात्मा स्यात्तदा व्यक्तः // 24 // अध्या. 20/24 1/20 परमात्मा