________________ 11 77 419 कुतर्कग्रहः ] [33 | नाम . व्याख्या गाथा कुग्रहस्तेन हता अर्थापत्त्या दुर्गदुर्गति पातेन नाशं नीताः / स.स. कुतर्कग्रहः = शुष्कतर्काभिनिवेशः / द्वा. 23/32 कुदृष्टिः = सम्यक्त्वभ्रंशानन्तरं मिथ्यात्वमुपगतः / उ.र. कुम्भकः = नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः // यो.शा. = स्तंभवृत्तिः / द्वा. 22/17 कुलधर्मानुपालनम् = अविरुद्धस्वकुलाचारानुवर्तनम् / यो.बि. 128 कुलनिश्रितः = गामे वा णगरे वा, कुलेशु संकामिएसु संमत्तं / / जो गिण्हइ असणाई, सो खलु कुलणिस्सिओ भणिओ // गु. 3/74 कुलम् __ = एकाचार्यसन्ततिसंस्थितिः / त.भा. 9/24 = चान्द्रनागेन्द्रादिः / उ.प. = पितृ-पितामहादिपूर्वपुरुषवंशः / यो.शा. 1/47 कुलजः = प्रशस्यकुलजातोऽनिन्द्यकुलजातो वा / पं. 7/4 कुलयोगिनः = ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये / . कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे // 210 // * सर्वत्राऽद्वेषिणश्चैते गुरुदेवद्विजप्रियाः / दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः॥२११॥ यो.दृ. = ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये / कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे // 21 // 19/21 सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः / दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः // 22 // द्वा. 19/22 कुशलधीः = मुक्तिपथानुवर्तिनीबुद्धिः / यो.बिं. कुशलाशयः = क्षायोपशमिकभावः / पञ्च. कुशीलः = शीलं चरणं तद् यस्य कुत्सितं भवेत् स इह कुशील उच्यते / गु. 4/28 कुसुमवृष्टिः __ = दशार्धवर्णपुष्पवर्षः / पं. 2/14 कृतज्ञता = परस्कृतोपकारपरिज्ञानम् / द्वा. 12/13 = परकृतोपकारपरिज्ञानम् / यो.बि. 126 कृतयोगिनः = चतुर्थषष्ठोष्टमादिभिर्भावितशरीराः, इतरेऽकृतयोगिनः / गु. 2/330 कृतार्थः = सिद्धप्रयोजनः / त.उ. का. 1/18 211 103