________________ 28] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा . // * // [ए] एकाग्रचित्तम् = अद्वेषादिगुणवतां नित्यं खेदादिषट्कपरिहारात् / / . सदृशप्रत्ययसंगतमेकाग्रं चित्तमामातम् // 7 // अध्या. 20/7 एषणासमितिः = अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोद्गमोत्पादनैषणादोषवर्जनमेषणासमितिः / त.भा. 9/5 = द्विचत्वारिंशता भिक्षादोषैनित्यमदूषितम् / मुनिर्यदन्नमादत्ते सैषणा समितिर्मता // 38 // यो.शा. 1/38 [ऐ] ऐकान्तिकी = नियमेनाऽसिद्धिरूपपरिहारवती, * पातविकला / यो.बि. 235 ऐदंयुगीनमानवः = तथाविधपुरुषार्थसिद्ध्यर्थिनामपटुदृष्टिनामुन्नमितजिज्ञासाबुद्धिकन्धराः / पं. 1/1 ऐदम्पर्यम् = तात्पर्यम्, 11/9 * सर्वज्ञेयविषये सर्वज्ञाज्ञैव प्रधानं कारणमित्येवंरूपम् / षो.. 11/9 = तात्पर्यार्थः / उ.र. 155 [औ] औचित्यपालनम् = समुचिताचाररूपम् / यो.बि. 130 औचित्यप्रवृत्तिः = धर्मार्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन प्रवृत्तिः / द्वा. 18/27 औचित्यम् = सातत्यसत्काराविधिसेवितम् / पञ्च. औचित्ययोगः = देशकालपुरुषव्यवहाराद्यानुकूल्यम् / षो. 10/6 औत्पातिकीबुद्धिः = पुव्वमदिट्ठमसुयमवेइय तक्खणविसुद्धगहियत्था / अव्वाहयफलजोगी बुद्धि उत्पत्तिया नाम // 39 // उ.प. औत्सुक्यम् = अकाले फलवाञ्छा, 3/8 * तत्त्वतः आर्तध्यानरूपम् / षो. 3/8 = विषयाकाङ्क्षा / अ. 32/7 औदार्यम् = कार्पण्यस्य दानादिपरिणामसङ्कोचलक्षणस्य त्यागः / षो. 4/3 औदासीन्यम् = अरक्ताद्विष्टता / शा.वा. .. 149 औपचारिकम् ___ = उपचारमात्रोद्भवम् / यो.बि. 14 औपाधिकीसंज्ञा ___= उपाधिप्रवृत्तिनिमित्तिका संज्ञा / त.उ. 1/35 39