________________ उ.प. स्तेयम् सूत्रविशुद्धिः] [137 | नाम . व्याख्या गाथा = परमपुरुषार्थानुकूलभावकलापसूचकस्याऽसारसंसारचारकावास निर्वासनकालघण्टाकल्पस्याऽऽवश्यकप्रविष्टादिभेदभाक् / उ.प. 19 = रागादिविषघ्नतया परममन्त्रम् / पञ्च. सूत्रविशुद्धिः = व्यञ्जनस्वरपदमात्राबिन्द्वादिभिरविकलपाठनेन वचनरूपागमनिर्मलता / उ.प. 854 सेवयितव्यः = शुश्रूषणीयाः भक्तिनिर्भरमनोभिः परमप्रमोदापूरितमानसैः / 1034 सेव्यत्वम् = भक्तिप्रयोजकसेव्यतावच्छेदकवीतरागादिगुणवत्त्वम् / त.उ. का. 1/7 स्खलना .= दुनिमित्ताधुपपातः / सा. 52 = साधुसामाचारात् प्रच्युतम् / सा. = अदत्तादानं स्तेयम्, 7/10 * स्तेयबुद्ध्या परैरदत्तस्य परिगृहीतस्य वा तृणादेव्यजातस्यादानं स्तेयम् / त.भा. 7/10 स्थण्डिलम् = परानुफरोधी प्रासुको भूभागः / पं.व. 230 स्थविरः = सीदतां स्थिरीकरणहेतुः / द्वा. 29/7 स्थानम् = ऊर्ध्वस्थानम्, अविरुद्धदेशकायोत्सर्गकरणम् / गु. 3/137 = स्थीयतेऽनेनेति स्थानम्-आसनविशेषरूपं कायोत्सर्गपर्यङ्कबन्धपद्मासनादि सकलशास्त्रप्रसिद्धम् / यो.वि. 2 स्थानाङ्ग: = यत्रैकानि पर्यायान्तराणि वर्ण्यन्ते तत् / त.उ. 1/20 स्थापनाकुलोपजीवी = सो ठवणकुलुवजीवी, जो पविसइ लोगगरहियकुलेसु। सेह गिलाणादिट्ठा, ठविएसु व दायगकुलेसुं // गु. 3/76 स्थापनाजीवः = काष्ठादिन्यस्तः, * धर्मास्तिकायादेरपि स्थापना स्मारकलिप्याकारेणाभिप्रायिकी भवत्येव / त.उ. 1/5 स्थितधीः = दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः / वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते // 65 // अध्या. 16/65 स्थितिमत् = अविचलितस्वभावम् / यो.वि. = तत्सिद्धि यावन्नियमितप्रतिष्ठं संस्कारात्मनाऽविचलितस्वभावं च / षो. 3/7