________________ 132] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा साधुप्रयत्नम् __ = साधूनां माध्यस्थ्यप्रधानत्वात्, शुभानुबन्धित्वाच्च साधुनां प्रयत्नस्य / ध.प. साधुमातरः = एताश्चारित्रगात्रस्य जननात् परिपालनात् / संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः // 45 // यो.शा. 1/45 साधुसच्चेष्टा = गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च / इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा // 1 // षो. साधुसमयसद्भावम् = समीचिनसिद्धान्तरहस्यम् / यो.वि. साधुसेवा = गुणवृद्धोपासना / शा.वा. साध्यः = योगाभ्यासनिष्पाद्यः मोक्षः / यो.बि. सानुबन्धः = अनुबन्धवान् / यो.बि. = आमुक्तिप्राप्तेरत्रुटितः / यो.बि. = भवान्तरानुयायी / उ.प. 785 सानुबन्धयोगः = अपायरहितो योगः / द्वा. 19/17 सापाययोगः = निरुपक्रममोक्षपथप्रतिकूलचित्तवृत्तिकारणं प्राक्कालार्जितं ____ कर्म अपायस्तत्सहितो योगः सापायः / यो.विं.' 11 सापेक्षाः = गच्छवासिनः / गु. 2/330 सामर्थ्ययोगः ___ = शास्त्रेण दर्शितोपायः फलपर्यवसायिना। . तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः // 5 // द्वा. 19/5 = क्षपकश्रेणिद्वितीयापूर्वकरणभावी / षो. 15/8 = शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः / शक्त्युद्रेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः // 5 // यो.दृ. = शास्त्रोक्तं विधिमुल्लङ्घ्य विशेषेण शुभाशयात् / सामर्थ्ययोगोऽसावेव तीव्रावाच्यगुणोदयः // 191 // ब्र.सि. = सामर्थ्यप्रधानो योगः सामर्थ्ययोगः / यो.दृ. सामाचारी = मुखवस्त्रिकाप्रत्युपेक्षणादिका क्रिया / श्रा. = विचित्रकर्मक्षयजनकः परिणामविशेषः / सा. = शिष्टाचरितक्रियाकलापरूपा / यो.श. सामान्यतो गृहस्थधर्मः = कुलक्रमागतमनिन्द्यविभवापेक्षया न्यायतोऽनुष्ठानमिति / ध. 3 सामान्येन = सूक्ष्मेक्षिकामनादृत्य / यो.ह.